________________
न्यायसङ्ग्रहस्य
[ न्या. सू. १/२०
न स्यात् ।
11
उद्भावकं त्वस्य “धातोरनेकस्वरात्" ॥३।४।४६ ॥ इत्यत्र सामान्येनानेकस्वराद्इत्युक्तिः । तथाहि । धातोरनेकस्वरत्वं तावद् द्विधा; परोक्षाहेतुकमन्यच्च । आद्यं पचादीनां; द्वितीयं चकासादीनाम् । तत्र द्वितीये " धातोरनेकस्वरात्- ॥३।४।४६॥ इत्यामादेशो दृश्यते; यथा चकासामास । आद्ये तु न; यथा पपाच । एवं सत्यपि सूत्रे ऽनेकस्वरादिति सामान्येनैव यदुक्तं तदेतन्न्यायाशयैव ।
क्वचिद् भ्रश्यति चायम्; तेनातिजरसैरित्यत्रातिजरशब्दस्यादन्तत्वेन निष्पन्नोऽपि भिस ऐस् जरसादेशहेतूभवनेन स्वहेतोरदन्तत्वस्य विघाताय जातः । भ्रश्यत्तानिवेदकं तु " भिस ऐस्" ॥१॥४२॥ इत्यत्र एस्करणेऽपि देवैरित्यादिप्रयोगसिद्धावपि ऐसः करणम् । तथाहि । ऐस्तावदतिजरसैरित्यस्य सिद्धयर्थं कृतः । यदि चायमभ्रंशशील एव स्यात्तदा “गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ" ॥२॥४। ९६ ॥ इति कृतह्नस्वजराशब्दस्य - ऐसि जरसादेश एव न प्राप्नोति; ऐसः स्वनिमित्तस्यातिजरशब्दाकारान्तत्वस्य विघातकत्वासम्भवात् । तथा च न कथमप्यतिजरसैरिति सिध्येत् । तथापि यदैस्कृतस्तदेतन्न्यायस्य भ्रंशशीलत्वादैसि परे निर्विघ्नजरसादेशभवनसंभावनयैव ।। ११ ।।
आसिद्धं बहिरङ्गमन्तरङ्गे ॥ २० ॥
प्रकृतेराश्रितं यत् स्याद् यद्वा पूर्वं व्यवस्थितम् । यस्य वाऽल्पनिमित्तानि अन्तरङ्गं तदुच्यते ॥१॥ प्रत्ययस्याश्रितं यत् स्याद्बहिर्वा यद् व्यवस्थितम् । बहूनि वा निमित्तानि यस्य तद्बहिरङ्गकम् ॥२॥
बहिरङ्गं कार्यमन्तरङ्गे विधौ कर्त्तव्येऽसिद्धमसदिव स्यात् । बहिरङ्गस्य दौर्बल्यख्यापनार्थोऽयं न्याय: । यथा गिर्योरित्यादौ प्रत्ययाश्रितत्वाद्बहिर्व्यवस्थितत्वाद्वा बहिरङ्गस्य यत्वस्य प्रकृत्याश्रितत्वात्पूर्वव्यवस्थितत्वाद्वाऽन्तरङ्गे " भ्वादेर्नामिनो दीर्घो वर्व्यञ्जने " ॥२॥ - १।६३ ॥ इति दीर्घविधौ कर्त्तव्येऽसिद्धत्वाद्दीर्घो नाभूत् । तथा तच्चारु इत्यादौ चवर्गयोगजं चत्वमुभयपदाश्रितत्वाद्बहिरङ्गमेकपदाश्रितत्वादन्तरङ्गे "चजः कगम् ॥ २ । १।८६ ॥ इति कत्वे कर्त्तव्येऽसिद्धमित्यतः कत्वं न ।
।।७।४।१११ ।।
आविर्भावकं चास्य " न सन्धिङ्गीयकि द्विदीर्घासद्विधावस्क्लुकि इति सूत्रे सन्धिविधित्वेन द्वित्वविधौ स्थानिवद्भावनिषेधे सिद्धेऽपि द्विग्रहणम् । तद्धि दद्ध्यत्र इत्यादौ यत्वादेरेतन्यायप्राप्तासिद्धत्वद्वारेणापि जायमानस्य स्थानिवद्भावस्य निषेधार्थम् । तथाहि । दद्ध्यत्रेत्यादौ धस्य " अदीर्घाद्विरामैकव्यञ्जने" ||१|३|३२|| इति
૨૨
11