________________
- १/१९]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
"
इत्यङ्। अयमद्युतदित्यादौ स्यात्, अदेद्योतीदित्यादौ तु न । बहुवचनेन यथा । "तेर्ग्रहादिभ्यः " ||४|४|३३ ॥ इत्यनेन ग्रहादिभ्यः परस्याशितस्तिप्रत्ययस्यादौ " स्ताद्यशितः - ' ॥४।४।३२॥ इत्यनेन प्राप्तस्य इटोऽनुज्ञाविधिः । स भणितिः इत्यादौ स्यात्, बम्भाण्टिरित्यादौ तु न ।
एकस्वरनिमित्तं यथा । " एकस्वरादनुस्वारेतः" ॥४।४।५६ ॥ इतीनिषेधः । अयं शक्त इत्यादौ स्यात्, शाशकित इत्यादौ तु न । ननु शाशकित इत्यादावेकस्वरत्वाभावादेव ‘“एकस्वरादनुस्वारेतः" ||४ |४|५६ ॥ इति सूत्रं न प्रवर्त्स्यति किं न्यायेन । सत्यम् । परं शकिधातुर्यद्येकस्वरस्तदा प्रकृतिग्रहणे यङ्लुबन्तस्यापि० इति न्यायात् शाशकिरप्येकस्वर उच्यते । तथा चात्रापि " एकस्वरादनुस्वारेतः" ॥४।४।५६॥ इतीङ्निषेधः प्राप्नोति, परमेतन्न्यायेन निषेधान्न स्यात् ।
व्यक्तिकरं त्वस्य तत्तत्सूत्रेषु तिवादिनिर्देशा एव । तथाहि । तिवादिनिर्देशास्तावत्तत्तत्सूत्रेषु कृतास्तेषां च विशेष: प्रायोऽन्यः कोपि न, एतावांस्तु दृश्यते; यदुत यङ्लुबन्तप्रयोगेषु तत्तत्सूत्रोक्तकार्याणि न सन्तीति । ततोऽर्थापत्त्या ज्ञायते एतदर्थमेवैते कृत इति ।
तरलत्वं त्वस्याद्ये पञ्चमे चांशे न दृश्यते; शेषेषु तु दृश्यते । तत्र द्वितीये यथा । अपात् इत्यादाविव, अपापात् इत्यादावपि " पिबैतिदाभूस्थः सिचो लुप्परस्मै न चेट्” ॥४।३।६६॥ इत्यनेन शनिर्दिष्टोऽपि सिचो लुबिनिषेधश्चाभूताम् । तृतीये यथा । नृत्त इत्यादाविव नरीनृत्त इत्यादावपि "डीयश्व्यैदितः क्तयोः " || ४|४|६१ ॥ इत्यनेनानुबन्धनिर्दिष्टोऽपीनिषेधोऽजनि । तुर्ये यथा । स्प्रष्टा इत्यादाविव, स्पृशेर्यङ्लुपि गतिवि पस्प्रेष्टि इत्यादावपि "स्पृशादिसृपो वा " ॥ ४|४|११२ ॥ इत्यनेन गणनिर्दिष्टोऽप्यदागम आगात् ॥ १८ ॥
सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य ॥ १९ ॥
सन्निपतति सङ्गच्छते कार्यमस्मिन्निति सन्निपातो निमित्तम्; तल्लक्षणं चिह्नं यस्य स सन्निपातलक्षणः । कोऽर्थः । निमित्तरूपमव्यभिचारि चिह्नं दृष्ट्वा निर्णीतप्रवृत्तिकः; स्वनिमित्तादुद्भूत इति यावत् । स विधिस्तस्य प्रस्तावात् स्वनिमित्तस्य विघाते निमित्तं न स्यात् । लोके पितृघातकपुत्रादौ कार्यादपि कारणविघातस्य दर्शनाद् व्याकरणे तथात्वनिषेधार्थोऽयं न्याय: । यथा पपाच इत्यत्र णवा जातमनेकस्वरत्वं " धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्तिचानु तदन्तम् " || ३ | ४ ४६ ॥ इत्यामादेशनिष्पादनेन णवो विघाताय
૨૧