________________
[ न्या. सू. १/१८
अथेत्थं बूषे; अस्ति हनादेशो वधधातुरदन्तत्वादनेकस्वरः स्थानिवद्भावादनुस्वारेच्च, तत्प्रयोगेषु चावधीदित्यादिष्विनिषेधो न दृश्यते; अनुस्वारेत इत्येतावदेव च सूत्रं यदि क्रियते तदा अवधीदित्यादिष्वनिषेधः प्रसज्यते इति चेत्तर्हि तस्येनिषेधनिवृत्त्यर्थं 'अवधानुस्वारेत” इति सूत्रमस्तु; " एकस्वरादनुस्वारेतः" ||४|४|५६ ॥ इत्येतावत्तु किमर्थम् । एवं सूत्रकृतिर्हि तदैव सार्थिका स्याद्यदि न केवलमेको वधधातुः किन्त्वन्येऽपि बहवो धातवो ऽनेकस्वरानुस्वारेतः स्युर्न त्वन्यथा । तादृशाश्च बहवो धातवस्तदैव सम्भवेयुर्यदि कृगादीन् यङ्लुबन्तीकृत्यैष न्यायः स्फोर्यते । तद्यथा कृधातुर्यङ्लुबन्तत्वे चर्क इत्यादिरूपत्वादनेकस्वर एतन्यायस्फोरणादनुस्वरेच्चेति; ततश्च चर्करितेत्यादाववधीदित्यादावपि चेड्निषेधनिवृत्त्यर्थत्वाद् “एकस्वारादनुस्वारेतः" ॥४॥४॥५६॥ इति सूत्रकृतिः सार्थिक स्यात् । तदेवमिमं न्यायं विनाऽनुपपद्यमानमनेकस्वरानुस्वारेद्धातुबाहुल्यं विनाऽनुपपद्यमानं “एकस्वरादनुस्वारेतः" ॥४|४|५६ ॥ इति वृहत्सूत्रकरणमिमं न्यायं ज्ञापयति । चटुलश्चायमग्रेतनेनापोद्यमानत्वात् ॥ १७ ॥
न्यायसङ्ग्रहस्य
तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि ॥ १८ ॥
निर्दिष्टमिति तिवेत्यादि चतुर्षु योज्यम् । ततश्च तिवादिनिर्दिष्टमेकस्वरशब्दमुच्चार्य विहितं च कार्यं विवक्षितधातोर्यदि यङ्लुप् स्यात्तदा न स्यात् । पूर्वेणात्रिप्रसङ्गे प्राप्ते तन्निषेधपरोऽयं न्यायः । तत्र तिवा निर्दिष्टं द्विधा । अलुप्तेन, लुप्तेन च । तत्रालुप्तेन यथा । “न कवतेर्यङ : " ||४|१|४७ ॥ इति कस्य चत्वनिषेधः । अयं कोकूयते इत्यादौ स्याच्चोकवीतीत्यादौ तु न । लुप्तेन यथा । " ङे पिब: पीप्य् " ॥४॥१॥३३॥ इति पीप्यादेश: । अयं पिबतेः केवलस्य स्याद्यथा पिबन्तं प्रायुक्त अपीप्यत्; यङ्लुबन्तस्य तु न स्याद्यथा पापतं प्रायुक्त अपापयत् ।
शवा निर्दिष्टं यथा । " निसस्तपेऽनासेवायाम् " ||२|३|३५|| इति निसः सस्य षत्वम् । इदं निष्टपतीत्यादौ स्यान्निस्तातपीति इत्यादौ तु न ।
अनुबन्धेन निर्दिष्टं यथा । " गापास्थासादामाहाकः ' || ४ | ३ | ९६ ॥ इति एत्वम् । इदं यादित्यादौ स्याज्जहायादित्यादौ तु न ।
गणेन निर्दिष्टं त्रिधा । सङ्ख्यया, आदिशब्देन, बहुवचनेन च । तत्र संख्यया यथा । "रुत्पञ्चकाच्छिदयः " ॥४।४।८८ ॥ इतीट् । अयं स्वपितीत्यादौ स्यात्सोषोप्तीत्यादौ तु न । आदिशब्देन यथा । " लृदिद्युतादिपुष्यादेः परस्मै ॥३४॥६४॥
२०