________________
- १/१६,१७]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् ॥ १६ ॥
नाममात्रनिर्देशे स्त्रीत्वादिलिङ्गविशिष्टमपि नाम ग्राह्यम् । शब्दभेदादर्थभेदाच्चाप्राप्तस्य ग्रहणस्य प्रापणार्थोऽयं न्यायः । एवमुत्तरन्यायेऽपि वाच्यम् । यथा "त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते" ॥२॥१॥३३॥ इत्यत्र त्यदामिति नाममात्रनिर्देशेन त्यदाद्यधिकारे सर्वत्र स्त्रीत्वादिविशिष्टानामपि त्यदादीनां ग्रहणात् सा स्या इत्यादौ "तः सौ सः'।२।१।४२॥ इति से कर्तव्ये त्यदादेः सेश्च आपा व्यवधानं न स्यात्; आपः स्त्रीलिङ्गवैशिष्टयजन्यत्वेन कार्ये कारणोपचारनीत्या स्त्रीलिङ्गवैशिष्ट्यमात्ररूपत्वविवक्षणात् । तथा च आप एतन्यायात्त्यदादिनामग्रहणेनापि ग्रहणस्य सिद्धेः । नामग्रहणे इति किम् । यत्र सलिङ्गनिर्देशस्तत्र तल्लिङ्गविशिष्टस्यैव ग्रहणं यथा स्यात् । तेन "अतः कृकमिकंसकुम्भकुशाकर्णीपात्रे - नव्ययस्य" ॥२॥३५॥ इत्यत्र कुशानिर्देशादयस्कुशावदयःकुश इत्यत्र रः सो न स्यात् ।
स्फातिकरं चास्य "राजन्सखेः" ॥७।३।१०६॥ इत्यत्र राजनिति नान्तनिर्देशः । स हि स्त्रीलिङ्गे अनकारान्ते राजन्शब्दे अट्समासान्तनिषेधार्थः, यथा महती च सा राज्ञी च महाराज्ञी । यदि चायं न्यायो न स्यात्तदा राजसखेरित्युच्यमाने महाराज्ञीत्यत्र प्राप्तिरेव नास्ति, राज्ञीत्यस्य भिन्नशब्दत्वादिति कुतस्तन्निषेधार्थं नान्तनिर्देशः क्रियेत; यत्तु कृतस्तद्राजसखेरित्युच्यमाने राजेति नाममात्रनिर्देशस्यैव भवनात्, तथासति चैतन्यायेन राज्ञीशब्देऽप्यट्समासान्तप्रसङ्गभवनं सम्भाव्य तनिषेधनार्थमेव ।
अस्य च चपलत्वात् "सर्वादि विष्वग्देवाड्डद्रिः क्व्यञ्चौ" ।३।२।१२२॥ इति डद्रिविषूचीशब्दान्नं स्यात् । तथासति विषूचव्यङ् इत्यनिष्टरूपापत्तेः ॥ १६ ॥ ... प्रकृतिग्रहणे यङ्लुबन्तस्यापि ग्रहणम् ॥ १७ ॥
यस्माच्छब्दाद्यः प्रत्ययो विधीयते सा तस्य प्रकृतिः, स चात्र सामर्थ्याद्धातुरूपैव, यङ्लुबन्तत्वस्यान्यत्रासम्भवात् । एवमुत्तरन्यायेऽपि वाच्यम् । यस्य धातोः केवलस्य यत्कार्यमुक्तं तत्तस्य यङ्लुबन्तस्यापि स्यात् । तेन प्रणिदत्ते इत्यत्र केवल इव यङ्लुबन्तेऽपि दागि परे, 'नेमादा-" ॥२॥३७९॥ इति नेर्नो णः सिद्धः; यथा प्रणिदादेति ।
__ सत्ताकरं चास्य "एकस्वरादनुस्वारेतः" ॥४।४५६॥ इति * वृहत्सूत्ररचनम् । तथाहि । अनुस्वारेतस्तावत् कृगादिधातवस्ते च सर्वेऽप्येकस्वरा एव सन्ति; नत्वनेकस्वरः कश्चिदप्यनुस्वारेदस्तीत्यतः "एकस्वराद्' - ॥४।४५६॥ इत्यस्य व्यवच्छेद्याभावात्कर्तेत्यादाविनिषेधार्थमनुस्वारेत इत्येतावताऽपि सूत्रेण सरति ।
* वृह - धातुरपि बृह् - समानार्थो वृद्धौ वर्तते इति वकारनिर्देशोऽत्र न विरुद्धयते ।
= ૧૯