________________
न्यायसङ्ग्रहस्य -
[न्या. सू. १/१५ - प्रतिपदोक्तम् । तत्रोभयोर्ग्रहणे सम्भवति सति प्रतिपदोक्तं ग्राह्यं, न तु लाक्षणिकम् । यथा "नोऽप्रशानोऽनुस्वारानुनासिकौ च पूर्वस्याधुट्परे" ॥१॥३८॥ इत्यत्र लाक्षणिकनकारस्याग्रहणात् त्वन्तत्र इत्यादौ नस्य सो न स्यात् । अयं हि नः "तौ मु" ॥१३॥१४॥ इत्यनेनानुनासिक इति सामान्येनैव विहितः । परं वल्ल्यादिछन्नदेशे ककुदं दृष्ट्वा गवाऽत्र भाव्यमितिवत्तकारं पुरो दृष्ट्वा तकारस्वानुनासिकेन नकारेणात्र भाव्यमित्यनया युक्त्या लक्षणाच्चिह्नदागत इत्यतो लाक्षणिकः । प्रतिपदोक्तस्य तु नस्य सः स्याद् । यथा भवांस्तत्र । अयं हि नो नोऽन्त इति नकारमेवोक्त्वा विहितत्वात्प्रतिपदोक्तः ।
__ ख्यातिकरं त्वस्य, “एकार्थं चाने च" ॥३।१।२२॥ इत्यनेनैव सिद्धेऽपि बहुव्रीहौ, "आसन्नादूराधिकाध्यर्द्धार्द्धादिपूरणं द्वितीयाद्यन्यार्थे " ॥३।१।२०॥ इत्यादि प्रतिपदोक्तं बहुव्रीहिविधानम् । तद्धि "प्रमाणीसङ्ख्याड्डः" ॥७।३।१२८॥ इति डसमासान्तविधावेतद्वहुव्रीहिग्रहणार्थम् । तेनासन्ना दश येषां ते आसन्नदशाः इत्यादावेव डः स्यात्; "एकार्थं चानेकं च" ॥३।१।२२॥ इत्येतत्सूत्रनिष्पन्ने तु बहुव्रीहौ डो न स्यात् । यथा प्रिया दश येषां ते प्रियदशानः इत्यादि ।।
___ अस्य चाविश्वास्यत्वात् “हुस्वस्य गुणः" ॥१४॥४१॥ इत्यत्र प्रतिपदोक्तवल्लाक्षणिकोऽपि हुस्वो ग्राह्यः । यथा हे कर्त्तः, हे निष्कौशाम्बे; अत्र हि कर्तृशब्दस्य तृः "णकतृचौ" ॥५॥१॥४८॥ इत्यनेन तृरुपस्यैवास्य विधानात्प्रतिपदोक्तः; निर्गतः कौशाम्ब्याः "गोश्चान्ते-" ॥२।४।९६॥ इति हूस्वे निष्कौशाम्बिरित्यत्र इकारस्तु, "गोश्चान्ते-" ॥२।४।९६॥ इत्यनेन ह्रस्व इति सामान्योक्तेऽपि कौशाम्बीशब्दे ईकारं स्थानिनं दृष्ट्वा तस्य स्वकीय इकारः कृत इत्यनया रीत्या लक्षणाच्चिह्नादेवागत इति कृत्वा लाक्षाणिक एव ।
अस्य च न्यायस्य क्वचित् क्वचिल्लक्षणेन व्याकरणेन निष्पन्नं लाक्षणिकमव्युत्पन्नं तु प्रतिपदोक्तमित्यप्यर्थ उदाहृतो दृश्यते । यथा हनो ह्य० दिवि, अहन् इत्यस्य लाक्षणिकत्वात् "अह्नः" ॥२।१७४॥ इति नस्य रुर्न स्यात् किन्त्वव्युत्पन्नस्य दिनार्थस्यैवाहनशब्दस्येति । सोऽपि पूर्वोक्तया व्याख्ययैव संगृहीतो द्रष्टव्यः । तथाहि । सामान्येन ह्यस्तन्यद्यतनीक्रियातिपत्तिषु तावदडागम उक्तः । इह तु ह्यस्तनीचिह्नं दृष्ट्वा अट् कृतः; तथा सामान्येन व्यञ्जनान्ताद्धातोर्देलुगूचे; इह तु हन्धातुं व्यञ्जनान्तं दृष्ट्वा देर्लुक् चक्रे इति लक्षणाच्चिह्नादेवागतत्वं त्याद्यन्ताहन्शब्दस्य । दिनार्थस्त्वयमुणादौ "श्वन्मातरिश्वन्-'" ( उणादि-९०२) इति सूत्रे ईदृगेव नामग्राहमुक्त इति कृत्वा प्रतिपदोक्त इति । एतदनुसारेणान्यत्रापि यथायोगं लाक्षणिकप्रतिपदोक्तता भावयित्वा दर्शनीया ॥ १५ ॥
-
१
/