________________
- १/१४,१५]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
अर्थवद्ग्रहणे नानर्थकस्य ॥१४॥ सम्भवति, ग्रहणं, कार्यमिति त्रयः शब्दा अत्राध्याहार्याः । अर्थवतः प्रत्ययस्य प्रकृतेर्वा ग्रहणे सम्भवति सत्यनर्थकस्य ग्रहणं न कार्यम् । शब्दसारूप्यादुभयोर्ग्रहणे प्रसक्ते सत्ययं न्यायः । एवमग्रेतनेऽपि वाच्यम् । तत्र प्रत्ययस्य यथा । "तीयं ङित्कार्ये वा" ॥१।४।१४॥ इत्यत्र "वस्तीयः" ॥७।१।१६५॥ इत्यादिविहितसार्थकतीयस्य सम्भवाज्जातीयसम्बन्धी तीयो न गृह्यते । तत्र हि जातीय एव प्रकारार्थवाचित्त्वात् सार्थको न तु तीयः । तेन पटुजातीयायेत्यादौ "तीयं ङित्कार्ये वा" ॥१।४।१४॥ इत्यनेन स्मायादयो न स्युः । प्रकृतेर्यथा । प्लीहानौ, प्लीहान इत्यादौ हनो निरर्थकत्वात् "इन्हन्पूषार्यम्णः शिस्योः" ॥१।४।८७॥ इति सूत्रोक्तनियमाभवनेन "नि दीर्घः" ॥१।४।८५॥ इति दीर्घः ।
ज्ञप्तिकरं चास्य, तृस्वसृनप्तनेष्टत्वष्टक्षत्तृहोतृपोतृप्रशास्त्रो घुट्यार् ॥१।४।३८।। इति सूत्रे तृशब्दान्तानामपि नवादीनां पृथगुपादानम् । तद्धि नप्तादीनामौणादिकतृप्रत्ययान्तानामपि उणादयोऽव्युत्पन्नानि नामानीति न्यायादव्युत्पन्नसंज्ञाशब्दत्वेन तृशब्दस्यानर्थकत्वात्तथा चैतन्यायेन निषेधभवनात् तृशब्देन संग्रहो न सेत्स्यतीत्याशङ्कया कृतम् । यदि चायं न्यायो नाभविष्यत्तदा नवादीनां तृशब्दस्यानर्थकत्वेऽपि तृशब्देनैव संग्रहसम्भवात्पृथगुपादानं नाकरिष्यदेव ।।
- चञ्चलश्चायम् । “अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधिं प्रयोजयन्तीति" न्यायेनापोद्यमानत्वात् चञ्चलतारव्यापकं तु "सङ्ख्याडतेश्चाशत्तिष्टेः कः" ॥६।४।१३०॥ इत्यत्र डत्यन्तानां "डत्यतु सङ्ख्यावत्" ॥११॥३९॥ इत्यनेन सङ्ख्यावत्करणात् सङ्ख्याशब्देन ग्रहणे सिद्धेऽपि पृथग् ग्रहणम् । तद्धि त्यन्तानां वर्जने डत्यन्तानामपि वर्जनं प्रसङ् क्ष्यतीत्याशङ्कया कृतम्; यदि चायमचञ्चलः स्यात्तदा त्यन्तवर्जने डत्यन्तवर्जनप्रसङ्गस्य शङ्काऽपि नास्ति, डतौ तेरनर्थकत्वादिति किमर्थं तच्छङ्कया पृथग् डतिं गृह्णीयात्; यत्तु गृहीतस्तदेतन्यायस्य चञ्चलत्वेन विश्वासाभावात्त्यन्तवर्जने डत्यन्तवर्जनप्रसङ्गशङ्कयैव ॥ १४ ॥
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् ॥ १५ ॥
सम्भवतोरिति शेषः । एवमग्रेऽपि यथायोगं वाच्यम् । लक्ष्यतेऽनेनेति लक्षणं लिङ्गम्, तदाश्रित्योक्तो विधिरप्युपचाराल्लक्षणम्; पदं पदं प्रति उक्तः प्रतिपदोक्तः; तयोर्द्वन्द्वः । ततश्च यत्सामान्येन लिङ्गमानं निर्दिश्य विहितं तल्लक्षणं तच्च लक्षणेन चरतीति वाक्ये "चरति" ॥६।४।११॥ इत्यनेनेकणि लाक्षणिकमित्यप्युच्यते । यत्तु नामग्राहं विहितं तत्
= १७