________________
न्यायसङ्ग्रहस्य -
[न्या. सू. १/१३ - मण्डूकप्लुतिन्यायोऽप्यस्यैव प्रपञ्चः । तथाहि । यथा मण्डूकः प्लवमानोऽन्तरा कियती-चिद् भुवं मुक्त्वाऽने पतति, तथा यत्र पूर्वसूत्रस्थोऽधिकारोऽन्तरा कतिचित्सूत्राणि मुक्त्वाऽग्रे याति तत्र तावन्मण्डूकप्लुतिन्यायो, यथा “अञ्वर्गात् स्वरे वोऽसन्" ॥१२॥४०॥ इति सूत्रस्थोऽसन्नित्यधिकारो, “अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः" ॥१॥२॥४१॥ इति सूत्रमन्तराले मुक्त्वा "तृतीयस्य पञ्चमे" ॥१३॥१॥ “प्रत्यये च" ॥१।३।२॥ इति सूत्रयोर्गतः, तेन हि ककुम्मण्डलम्, अम्मय इत्यादौ समासान्ततिविभक्त्या "नाम सिदय्व्यञ्जने' ॥१।१।२१॥ इत्यनेन च क्रमात्पदसंज्ञाभवनात्पदान्तस्थस्यापि मस्यासत्त्वात् "तौ मुम-" ॥१॥३।१४॥ इत्यनुस्वारानुनासिकौ नामूताम् । अत्रापि चाधिकारप्रवृत्तिनिवृत्त्योरपेक्षात एव सिद्धिरस्ति, न तु किञ्चिज्ज्ञापकमपेक्षितमिति ॥ १२ ॥
अर्थवशाद्विभक्तिपरिणामः ॥ १३ ॥ परिणामः परावर्त्तः; कार्य इति शेषः । प्रागन्यविभक्त्यन्तस्य पदस्य पुरतोऽनुवर्त्तनेऽन्यविभक्त्यन्तीभवनं विरुध्यते; न हि गोधा सर्पन्ती सर्पणादहिर्भवति इत्यतस्तदनुपपत्तिनिराकरणार्थोऽयं न्यायः । यथा “अत आः स्यादौ जस्भ्याम्ये" ॥१।४।१॥ इत्यतोऽनुवर्तमानस्य षष्ठयन्तस्याप्यत इति पदस्य "भिस ऐस्" ॥१।४।२।। इत्यत्र पञ्चम्यन्ततया परिणामः ।
निर्णायकं त्वस्य "अद् व्यञ्जने" ॥२॥१॥३५॥ इत्यत्र स्थानिनोऽनुपादानम् । तथाहि । अत्र तावदिदम् - शब्दः स्थानी इष्टो, यदि च पूर्वसूत्रस्थः षष्ठयन्त्य एव स तत्रानुवर्त्यते, तदा “षष्ठ्यान्त्यस्य" ॥७।४।१०६॥ इति परिभाषया मस्यैवादादेशः प्राप्नोति, संपूर्णस्य च इदमोऽदादेशः अस्येत्यादिप्रयोगेषु दृश्यते, अतो "अद् व्यञ्जने" ॥२।१।३५॥ इति सूत्रे प्रथमान्त इदं शब्दः स्थान्युक्तो विलोक्यत एव; एवं सत्यपि यदत्र स्थानी सर्वथा नोपात्तस्तदेतन्न्यायबलात् षष्ठयाः प्रथमात्वपरिणामसम्भावनयैव । तथा "अनक् " ॥२॥१॥३६॥ इति सूत्रे विशेषणस्य प्रथमान्तत्वमेतन्यायनिर्णायकं, तद्धि विशेष्यस्येदमः प्रथमान्ततां सूचयति; सा चैतन्न्यायादेव सिध्यति नान्यथा ।
अस्य च चलत्वात् "तृतीयस्य पञ्चमे" ॥१॥३१॥ इत्यतोऽनुवर्त्तमानस्य तृतीयस्येति पदस्य पञ्चम्यन्ततया परिणमनायां सिद्धावपि "ततो हश्चतुर्थः" ॥१॥३॥३॥ इत्यत्र तत इत्युक्तम् ॥ १३ ॥