________________
- १/१२]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । कारकान्तरमिति । तेन मात्रा स्मृतं, मनसा स्मृतमित्यादौ कर्तृकरणयोः शेषविवक्षाया अभवनात् षष्ठी न स्यात् ।
सव्यभिचारश्चायम् । तेन सम्बन्धस्याकारकत्वमेव । ततश्च बहूनामिदं वस्त्रमित्यत्र बहुशब्दात् "बह्वल्पार्थात्कारकादिष्टानिष्टे पशस्" ॥७।२।१५०॥ इति प्रशस् न स्यात् ॥ ११ ॥
अपेक्षातोऽधिकार : ॥ १२ ॥ अपेक्षा इष्टता, तत एवाधिकारः प्रवृत्तिमानिवृत्तिमांश्च ज्ञेयो, न तु तत्र किञ्चिज्ज्ञापकमपेक्ष्यमिति भावः । न्यायानामिवाधिकारप्रवृत्तिनिवृत्त्योरपि केनचिज्ज्ञापकेनावश्यभाव्यमित्याशङ्कामुच्छेत्तुमयं न्यायः । यथा “णषमसत्परे स्यादिविधौ च" ॥२।१।६०॥ इत्यतः सूत्रादसत्पर इत्यधिकारो "रात्सः" ॥२।१।९०॥ इति यावदनुवर्त्तते नोर्द्धम्; स्यादिविधौ च इत्यधिकारस्तु, “नोादिभ्यः ॥२।१।९९॥ इति यावत्; इत्येषोऽर्थो ज्ञापकं विनाऽपि सिद्धः ।
निचायकं चास्य "समानानां तेन दीर्घः" ॥१२॥१॥ इत्यत्र समानानामिति निर्देशः । तथाहि । अत्र तावदामो नाम् "हुस्वापश्च" ॥१।४।३२॥ इत्यनेन कृतः स च तेन तदा स्यात् यदि "आमो नाम्वा" ॥१।४।३१॥ इति पूर्वसूत्रादाम इति नामिति च पदे तत्रानुवर्तेते । तदनुवृत्तिश्चैतन्यायादेव सिध्यति न त्वन्यथा; ज्ञापकान्तराभावात् । तथा "ऐदौत्सन्ध्यक्षरैः" ॥१।२।१२॥ इत्यत्र ऐत्वमस्य निश्चायकम् । इदं ह्यनुपसर्गाकारस्य ऐत्वं "ऋत्यारुपसर्गस्य" ॥१।२।९॥ इत्यतोऽनुवर्तमानस्योपसर्गाधिकारस्य निवृत्तावेव सिध्यति; तन्निवृत्तिश्चैतन्यायाधीनैव, ज्ञापकान्तराभावादिति । .
___ न चायमैकान्तिको यतो यद्यपेक्षावशादेवाधिकारप्रवृत्तिनिवृत्ती स्याताम्, तदा “प्रत्यये च" ॥१।३।२॥ इत्यत्र चकार उत्तरत्र विकल्पानुवृत्त्यर्थः, "शषशे शषसं वा" ॥१॥३६॥ इत्यत्र च नवाधिकारे वा ग्रहणमुत्तरत्र विकल्पनिवृत्त्यर्थं कुतः क्रियेते, यत्तु कृते तदस्यानैकान्तिकत्वादेव ।
विशेषातिदिष्टो विधिः प्रकृताधिकारं न बाधते इत्यपि न्यायोऽस्ति । यथा "धातोरिवर्ण-" ॥२।१५०॥ इत्यतोऽनुवर्तमानो धातोरित्यधिकारो "भ्रश्नो:" ॥२।१५३॥ इत्यादिसूत्रत्रये विशेषातिदेशसद्भावादनुक्तोऽप्येतन्यायबलेनात्रुटितत्वाद् "योऽनेकस्वरस्य' ॥२।१५६॥ इत्यत्र पुनः प्रादुर्भूत इति । परमिदं प्रकृतन्यायेनापि सिध्यति इत्यतः सोऽत्रैवान्तर्भूतः ।
= १५