________________
न्यायसङ्ग्रहस्य
[ न्या. सू. १/११
व्यभिचारी चायम् । "भुजिपत्यादिभ्यः कर्मापादाने" || ५ | ३ | १२८ ॥ इत्यत्र वचनवैषम्येऽपि यथासङ्ख्यसद्भावात् । "पूर्वावराधरेभ्यो ऽसस्तातौ पुरवधश्चैषाम्" ॥७।२।११५॥ इत्यत्र च पूर्वावराधरशब्दानां "दिक्शब्दाद्दिग्देशकालेषु प्रथमापञ्चमीसप्तम्याः " ।।७।२।११३॥ इति सूत्रादनुवर्त्तमानैर्दिग्देशकालैः सह सङ्ख्याया वचननिर्देशस्य च तुल्यत्वेऽपि यथासङ्ख्याभावात् ॥ १० ॥
विवक्षातः कारकाणि ॥ ११ ॥
भवन्ति न भवन्त्यन्यथा भवन्ति चेति शेषः । मिथोऽसाधारणलक्षणत्वात्कारकाणां नैयत्ये एव प्राप्ते तन्निषेधार्थोऽयं न्याय: । तत्र भवनं यथा । भिक्षा वासयतीत्यादौ भिक्षादेर्निर्व्यापारत्वेन हेतुमात्रत्वात्तत्त्वतोऽकारकत्वेऽपि स्वतन्त्रतया वासनादिव्यापारविवक्षया कर्तृकारकत्वं सिद्धम् । न च तत्त्वतोऽकारकत्वं नास्तीति वाच्यम्, यतो यदि भिक्षादेः कारकत्वमभविष्यत्तदा भिक्षयोषित इत्यांदौ " कारकं कृता " ||३|१|६८ ॥ इत्यनेन समासोऽभविष्यत्, यत्तु न स्यात्तद्भिक्षादेरकारकत्वादेव; यच्चैवं भिक्षादेस्तत्त्वतोऽकारकत्वे सत्यपि भिक्षा वासयतीत्यादौ कर्तृकारकत्वं प्रयुक्तं दृश्यते, तद्विवक्षामात्रसिद्धमेव । अभवनं यथा । माषाणामश्नीयादित्यादौ माषादीनां कर्मत्वे सत्यपि तदविवक्षणात्सम्बन्धमात्रे षष्ठी सिद्धा । अन्यथा भवनं यथा । ओदनः स्वयं पच्यते, असिश्छिनतीत्यादावोदनास्योः कर्मकरणयोरपि स्वातन्त्र्यविवक्षया कर्तृत्वं सिद्धम् ।
अनुवादकं चास्य, “स्मृत्यर्थदयेशः” ॥२।२।११ ॥ इत्यत्र कर्मणोऽकर्मत्वविकल्पस्य नियमार्थत्वम् । तथाहि । सर्वधातूनां कर्तृकर्मादिकारकाणि यदि कर्तृकर्मादिरूपतया विवक्ष्यन्ते तदा कर्तृकर्मादिरूपाणि स्युर्नो चेन्न, इति तावदनेन न्यायेन व्यवस्थाप्यते । एवं च स्मृत्यर्थदयेशामपि कर्मणः कर्मत्वं विवक्षावशात् स्याच्च न स्याच्चेत्यप्यागतम्; स्मृत्यर्थादीनामपि सर्वधातुग्रहणेन ग्रहणात् । ततश्चानया रीत्या स्मृत्यर्थादीनां कर्म्मणोऽकर्मत्वविकल्पे एतन्न्यायेन सिद्धे सति यदि " स्मृत्यर्थदयेशः " ॥ २।२।११ ॥ इति सूत्रमारब्धम्, तदा सिद्धे सत्यारम्भो नियमार्थ इति न्यायान्नियमार्थे विश्रान्तम् । यदि त्वेतन्यायेन वैकल्पिकमकर्मत्वं सिद्धं नाभविष्यत्तदा " स्मृत्यर्थ - " ॥ २।२।११ ॥ इति सूत्रं, सिद्धे सत्यारम्भ इति न्यायाप्रवृत्तेर्नियमार्थं नाभविष्यदेव किन्तु विध्यर्थमेवाभविष्यत् । तदेवं " स्मृत्यर्थ - " ।।२।२।११॥ इति सूत्रस्य यन्नियमार्थत्वं तदिमं न्यायं विनाऽनुपपद्यमानं सदिमं न्यायं ज्ञापयतीति । “स्मृत्यर्थ - " || २|२| ११ ॥ इति सूत्रोक्तो नियमश्चैवम् । “स्मृत्यर्थ” ॥२।२।११॥ इति सूत्रोक्तधातूनां कर्मैव पक्षे अकर्मत्वविधानाच्छेषरूपेण विवक्ष्यते न तु
१४