________________
न्यायसङ्ग्रहस्य - न्या. सू. २/५, ६, ७ - अस्य च चास्थारनुत्वात् जषधातोरद्यतनीदिप्रत्यये अजरत् इत्यादावाख्यातसंबन्धिनि "ऋदिच्छ-" ॥३।४।६५॥ इत्यङ्प्रत्यये परे 'ऋवर्णदृशोऽङि " ॥४॥३७॥ इत्यनेन यथा गुणः स्यात्तथा जरणं जरा इत्यादौ "षितोऽङ्" ॥५॥३।१०७॥ इत्यनेन विहिते कृत्संबन्धिन्यप्यङि परे गुणः सिद्धः ॥ ४ ॥
निरनुबन्धग्रहणे सामान्येन ॥ ५ ॥ सामान्येनेति निरनुबन्धसानुबन्धयोरित्यर्थः । वैसदृशात्सानुबन्धस्य ग्रहणे अप्राप्येऽयं न्यायः । यथा स्वः; कः; अत्र "र : पदान्ते विसर्गस्तयोः" ॥१३॥५३॥ इति रस्य रोश्च विसर्गः सिद्धः ।
आरोपकं त्वस्य "अरोः सुपि रः" ॥१३५७॥ इत्यत्र रुवर्जनम् । तद्धि तत्र "र: पदान्ते-" ॥१३॥५३॥ इत्यधिकारादेतन्यायेनोभयोरपि रयोर्ग्रहणे प्रसक्ते सति कृतम् ।
अस्थेयांश्चायम् । निरनुबन्धग्रहणे न सानुबन्धकस्य इत्यपि न्यायसद्भावात्
साहचर्यात्सदृशस्यैव ॥ ६ ॥ अव्यभिचारिणा व्यभिचारी यन्नियम्यते तत्साहचर्यम्; तस्माच्च सदृश एव ग्राह्यो न त्वसदृशः । इष्टग्रहणसिद्ध्यर्थोऽयं न्यायः । यथा "क्त्वातुमम्" ॥११॥३५॥ अत्र क्त्वातुमोः कृतोः साहचर्यात् कृदम् ग्राह्यो न तु द्वितीयैकवचनम् । .
बोधकं त्वस्याविशिष्टोक्तिरेव ।।
अस्थेष्ठत्वाच्चास्य "वत्तस्याम्" ॥११॥३४॥ इत्यत्र न केवलं वत्तसिसाहचर्यात्तद्धितस्यैव आमोऽव्ययत्वं स्यात् किन्तु परोक्षास्थानजस्यापि; तेन इदमनयोरतिशयेन किमिति किंतराम्; अत्र किंशब्दात् "द्वयोविभज्ये च तरप्" ॥७॥३६॥ इत्यनेन तरपि, "किन्त्याद्येऽव्ययादसत्त्वे तयोरन्तस्याम्" ॥७॥३८॥ इत्यनेन तरपोऽन्तस्य आमादेशे च यथा तस्य आमोऽग्रे "अव्ययस्य" ॥३।२७॥ इति सेर्लुप् स्यात्तथा पाचयांचक्रुषा इत्यत्र परोक्षास्थानजस्याप्यामोऽग्रे "अव्ययस्य" ॥३।२७॥ इत्यनेन टाया लुप् सिद्धः ॥ ६ ॥
वर्णग्रहणे जातिग्रहणम् ॥ ७ ॥ एकवर्णग्रहणे तज्जातीयोऽनेकोऽपि ग्राह्य इत्यर्थः । अमुकवर्णस्येत्येकवचननिर्देश एकस्यैव ग्रहणं प्राप्नोति न द्वयोरित्यतोऽयं न्यायः । यथा रंरम्यते इत्यादौ रमेरकारपुरस्थैका
=
५२
=