SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ - २/७] न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । नुनासिकान्तत्वे सति यथा "मुरतोऽनुनासिकस्य" ॥४१५१॥ इति म्वागमः स्यात्तथा हम्मतेर्यङि जंहम्म्यते इत्यादावप्यनुनासिकजातिग्रहणाद् हम्मतेरकारपुर:स्थानुनासिकद्वयान्तत्वेऽपि सति "मुरत:-" ॥४।१५१॥ इति म्वागमः सिद्धः । देशकं त्वस्य जंहम्म्यते इत्यादीनां सिद्धयर्थं यत्नान्तरानुपदेशनम् । ___ अस्या अस्थैर्याच्च क्वचिद्वर्णग्रहणे जातिग्रहणं स्याच्च न स्याच्च । यथा सुपूर्वस्य घिणुङ्ग्रहणे इत्यस्य उदित्वान्नागमे तस्य "तवर्गस्य श्चवर्ग-" ॥१।३।६०॥ इति णत्वे घिण्णरूपाद्धातोः “मन्वन्-'" ५।१।१४७॥ इति वनि, "वन्यापञ्चमस्य" ॥४।२।६५॥ इत्यत्र पञ्चमजातिग्रहणाण्णद्वयस्याप्याङादेशे आङो ङित्त्वेन गुणाभावाद्यत्वे सुघ्यावा इति स्यात् । जातिग्रहणाभवने त्वन्त्यस्यैव णस्य आत्वे तथाच णकारयोगरूपनिमित्तानिवृत्त्या निमित्ताभाव० इति न्यायादाद्यणस्य णत्वनिवृत्तौ सुघिनावा इत्यपि स्यात् । अस्थैर्यप्रतिष्ठापकं त्वस्य काष्ठतङ्क्षि कुलानीत्यादौ नागमार्थं "धुटां प्राक्" ॥१।४६६॥ इति बहुवचनम् । तथाहि । बहुवचनं किलानेकधुपधुटजातिग्रहणसिद्ध्यर्थं न्यस्तम् । एतन्यायस्थैर्ये च धुट् इत्येकवचनेनापि बहवोऽपि धुटो लभ्येरन्निति किमर्थं बहुवचनं प्रयुज्येत ॥ __इह च न्याये वर्णग्रहणे इत्युपलक्षणम् । तेन विशिष्टवर्णसमुदायग्रहणेऽपि क्वचिज्जात्याश्रयणं सिद्धम् । यथा चोरयन्तं प्रायुक्त अचूचुरत् इत्यत्र णिजातिरेवाश्रिता । तथाहि । चुरण इत्यस्मात् "चुरादिभ्यः-" ॥३।४।१७॥ इति णिचि गुणे चोरि इति जातं; तस्माच्च चोरयन्तं प्रायुक्तेति णिग् । अद्यतनीदि; "णिश्रि-" ॥३।४।५८॥ इति ङ : । अत्र णिद्वयमस्ति परं यो णिर्धातोरग्रे स परो न, यस्तु ङपरः स धातोरनन्तरो न । तेन चो इत्यस्य : उपान्त्यस्यासमान-" ॥४२॥३५॥ इति इस्वो न प्राप्नोति, ङपरे णौ तस्य विधानात् । यदि च "णेरनिटि" ॥४।३।८३॥ इत्यनेन एको णिलृप्यते, तदा ङपरणिः पुरःस्थ: स्यात्परं धातोः समानलोपित्वमापद्यते, तेनाप्युपान्त्यहूस्वो न प्राप्नोति । परं "उपान्त्यस्यासमान-" ॥४२॥३५॥ इत्यादिसूत्रेषु णाविति णिजातिराश्रीयते; तेनात्र णिद्वयेनापि एक एव णिर्डपरो गण्यते । यदि च द्वावपि णी निमित्ततयैव संगृहीतौ, तदा णिलोपेन समानलोपित्वमपि न स्यात् । णेरन्यस्य समानस्य लोपे हि समानलोपितत्वं स्याद्यथा कलिमाख्यत् अचकलत् इत्यत्र कलिशब्दसंबन्धिन इकारस्य "त्रन्त्यस्वरादेः" ॥७।४।४३॥ इत्यनेन लोपे समानलोपित्वं जातं, ततोऽत्र प्रस्तुते समानलोपित्वाभावाच्चो इत्यस्य हुस्वे तदनु चु इति द्वित्वे पूर्वस्य "लघोर्दीघोऽस्वरादेः" ॥४।१।६४॥ इति दीर्घ च अचूचुरदिति सिद्धम् ॥ ७ ॥ પ૩
SR No.005716
Book TitleNyaya Sangraha
Original Sutra AuthorN/A
AuthorRatnavallabhvijay
PublisherOmkarsuri Aradhana Bhavan
Publication Year2001
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy