________________
न्यायसङ्ग्रहस्य - . [न्या. सू. २/८, ९ - वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते ॥ ८ ॥ ऋकारमध्येऽर्द्धमात्रो रेफोऽग्रे पश्चाच्च तुरीयः स्वरभागोऽस्ति । एवं लकारेऽर्द्धमात्रो ल इत्याद्यपि वाच्यमिति वृद्धाः प्राहुः । ततश्च यथा गोविक्रये क्रियमाणे मांसविक्रयनियमो न भज्यते; गवि मांसबुद्धेरभावात्; तथा ऋलुग्रहणे तन्मध्यस्थरलयोर्ग्रहणं न प्राप्नोति ताभ्यां रलबुद्धेरनुत्पादनादित्यतोऽयं न्यायः । यथा प्रलीयमानमित्यादिवत् प्रक्लृप्यमानमित्यादावपि लुकारव्यवधाने तदेकदेशभूतलकारेणापि व्यवधानादलचटेति निषेधेन "स्वरात्" ॥२॥३।८५॥ इति प्राप्तं णत्वं नाभूत् ।
व्यञ्जकं त्वस्य प्रक्लृप्यमानमित्यादौ णत्वं निषेद्धं यत्नान्तराकरणम् ।
अस्य अध्रौव्याच्च कृतः, कृतवानित्यादौ "रदादमूर्च्छमदः क्तयोर्दस्य च" ॥४।२।६९॥ इति प्राप्तं क्तयोस्तो नत्वं नाभूतं । रग्रहणेन ऋमध्यस्थरेफस्याग्रहणात् । अध्रौव्यव्यावर्णकं तु "रघुवर्णात्-" ॥२॥३।६३॥ इत्यत्र रेफऋवर्णयोर्ग्रहणम् । अस्य ध्रौव्ये हि ऋवर्णमध्येऽपि रेफ एवास्तीति रेफग्रहणेनापि. सरति । अत एव पाणिनिना णत्वसूत्रे रषाभ्यामित्येवोक्तं, ऋवर्णादपि तन्मध्यस्थरेफाश्रयं णत्वं भविष्यतीत्याशयेन ॥ ८ ॥
___ तन्मध्यपतितस्तद्ग्रहणेन गृह्यते ॥ ९ ॥
नादिप्रत्यये एकस्मिन्ननेकस्मिन्वाऽन्तःपतितेऽपि सति धात्वादेर्यथोक्तं कार्य स्यादेव । प्रत्ययेऽन्तः पतिते सति धातोः खण्डितत्वबुद्धेरुत्पादात् खण्डीभूतस्य च तस्य कपालरूपतापन्नकलशस्य जलाहरणादिकार्य इव धातुकार्येऽप्राप्तेऽयं न्यायः । तत्रैकरिमन् यथा । अरुणत्; अत्र श्नेऽन्तःपतितेऽपि रुधेः प्रागट् सिद्धः । अनेकरिमन् यथा । अतृणेट्; अत्र श्ने ईति चान्तःपतितेऽपि तृहेः प्रागट् । न चाडेव प्रथममानेष्यते तथाच क्कैतन्यायावकाश इति वाच्यम् । कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चाद् वृद्धिस्तद्बाध्योऽट् च इति न्यायसद्भावेनाटः प्रथममनागमनात् ।
__ अभिव्यञ्जकं त्वस्य "त्वमहं सिना-" ॥२।१।१२॥ इत्यत्र प्राक् चाक इति । तथाहि । युष्मदस्मदोरकि सौ तावत् त्वकमहकमिति रूपे इष्टे । यदि च "त्यादिसर्वादेः स्वरेष्वन्त्यात्पूवाऽक्" ॥७।३।२९॥ इत्यनेनाक् प्रथममानीयते तदैतन्यायात्साकोरपि युष्मदस्मदोर्युष्मकदस्मकद्पयोस्त्वमहमादेशः स्यात्तथा चाकः श्रवणं न स्यादित्यत एतन्यायाशङ्कयाऽकः श्रवणार्थं प्राक् चाक इत्युक्तम् ।
___ अस्य अनैकान्तिकता तु नालोक्यते ॥ ९ ॥
= ५४