________________
- २/१०]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । आगमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते ॥ १० ॥
आगमा ये आदिशब्देनान्तशब्देन वा निर्दिष्टाः । यथा “अड् धातोरादिमुस्तन्यां चामाङा" ॥४।४।२९॥ इति “अनामस्वरे नोऽन्तः" ॥१।४।६४॥ इत्यादि । ते आगमा इति बहुवचनस्यातन्त्रत्वादेको व्यादयोऽपि वा यदणीभूता इति । गुणशब्दस्य लक्षणयाऽवयववाचित्वाद् यस्यावयवीभूताः स्युस्तद्ग्रहणेन गृह्यन्ते इति कोऽर्थस्तस्य केवलस्य यत्कार्यमूचे तत्तस्य सागमस्यापि स्यात् । आदिशब्देनान्तशब्देन च निर्देशस्य फलदर्शनार्थोऽयं न्यायः । तत्रैको यथा । प्रण्यपतत् । अत्रासहितेऽपि पतौ 'नेमादा-" ॥२।३७९॥ इति ने! णः सिद्धः । द्वौ यथा । प्रनिपूर्वस्य पतेर्यङ्लुपि दिवि "व्यञ्जनाद्देः सश्च दः" ॥४।३।७८॥ इति तल्लुकि प्रण्यपनीपत् इत्यादावट आदिशब्दनिर्दिष्टत्वेन, न्यश्चान्तशब्दनिर्दिष्टत्वेनागमत्वात्तद्युतस्यापि पतेः पतिग्रहणेन ग्रहणात्तस्मिन् परे "नेआदा-" ॥२॥३७९॥ इति ने! णः । . नन्वत्रागमयुतस्य पतेर्ग्रहणं सिध्यतु, पकारयुतस्य तु कथं ग्रहणं, पकारस्य द्विरुक्तिजस्यानागमत्वात् । उच्यते । तस्याव्यवधायित्वमग्रेतनन्याये वक्ष्यते । एवमग्रेतनोदाहरणेऽप्याशङ्कयं समाधेयं च । त्रयो यथा । प्रनिपूर्वस्य यमेर्यङ्लुपि अद्यतनीदिप्रत्यये, प्रण्ययंयंसीदित्यादावडागमम्वागमसागमयुतेऽपि यमो (मि) परे, "अकखाद्यषान्ते पाठे वा" ॥२॥३८०॥ इत्यनेन ने! णः । - अस्य गमकं तु, सेटः वसोरुषादेशाय "क्कसुष्मतौ च" ॥२।१।१०५॥ इत्येतद्वयतिरिक्तयत्नाकरणम् । तथाहि । "वसुष्मतौ च" ॥२।१।१०५॥ इत्यनेन तावदनिट: कसोरुषादेशे बभूवुषीत्यादि सिध्यतु; परं पेचुषीत्यादौ "घसेकस्वरातः क्सोः" ॥४।४।८२॥ इत्यनेनेड्भवनेन वसोः सेट्त्वादिटश्चादृश्यमानत्वात्तल्लोपाय, सेट: वसोरुषादेशाय वा सूत्रं कार्यम् । यत्तु किमपि न कृतं तदेतन्यायात्सेटोऽपि वसोरुषादेशः 'कसुष्मतौ च" ॥२।१।१०५॥ इत्यनेनैव सेत्स्यतीत्याशयैव ।
अस्य च व्यभिचारित्वाद् "वेः स्कन्दोऽक्तयोः ॥२।३।५१॥ इति षत्वसूत्रे स्कन्दग्रहणेनासहितस्य स्कन्दोऽग्रहणाद् व्यस्कन्ददित्यादो षत्वं नाभूत् । व्यभिचारित्वप्रतिष्ठापकं तु "उपसर्गात्सुम्सुवसोस्तुस्तुभोऽट्यप्यद्वित्वे" ॥२॥३॥३९॥ इति सूत्रे अट्यपीति । तथाहि । अभ्यषुणोदित्यादावड्व्यवधानेऽपि षत्वार्थं तावदट्यपीत्युक्तम् । यदि चायमव्यभिचारी स्यात्तदा सुग्ग्रहणेनाट्सहितस्यापि सुगो ग्रहणसिद्धेरटा व्यवधानाभवनादट्यपीति न वक्तव्यं स्यात् । यत्तूक्तं तदस्य व्यभिचारित्वात्सुग्ग्रहणेनासहितस्यापि सुगो ग्रहणासिद्धयाऽटो व्यवधायित्वसंभावनयैव ।।
૫૫