________________
न्यायसङ्ग्रहस्य -
[न्या. सू. २/११ - आगमोऽनुपघाती इत्यपि न्यायोऽस्ति । यथा भवानित्यत्र नागमे कृते अतुरन्तुरूपो जातस्तथापि नागमस्यानुपघातित्वात् "अभ्वादेरत्वसः सौ" ॥१।४।९०॥ इत्यनेनात्वन्तलक्षणो दीर्घः स्यादेवेति । परं सोऽप्यत्रैवान्तर्भावनाहः; समानफलत्वात् । तथाहि । अनुपघातीत्यस्य तावदयमेवार्थो यत्स्वव्यवधानहेतुकं यथाप्राप्तकार्याणामुपघातमागमो न करोतीति । यदि चागमानामवयवत्वेनावयविग्रहणेन ग्रहणं सिद्धं तदाऽव्यवधायित्वादनुपघातित्वं स्फुटमेव ॥ १० ॥
स्वाङ्गमव्यवधायि ॥ ११ ॥ स्वमङ्गं द्विरुक्तादिकं धात्वादेर्निजाङ्गिनः कार्ये कर्त्तव्ये व्याघातं न कुर्यात् । स्वाङ्गत्वस्य ह्येतावदेव फलमिति ज्ञप्त्यर्थोऽयं न्यायः । यथा संचस्कारेत्यत्र सम् कृ इति स्थितेऽन्तरङ्गत्वात्प्रथमं स्सटि, ततश्च तदवसरप्राप्ते "रसटि समः" ॥१३॥१२॥ "लुक्" ॥१।३।१३॥ इति सूत्रे बाधित्वा परत्वान्नित्यत्वाद्धातुमात्राश्रयत्वेनान्तरङ्गत्वाच्च णवि तदाश्रिते द्वित्वादौ च कृते संचस्कृ इति स्थिते एतन्यायबलाद् धात्वङ्गेन द्वित्वजचकारेण समो व्यवधानाभवनाद् निमित्ताभावे०. इति न्यायप्राप्ता स्सटो निवृत्ति जनि । यतः सम्कृगोरानन्तर्यमेव स्सटो निमित्तम्। ततश्च द्वित्वेन व्यवधाने स्वीक्रियमाणे सत्यानन्तर्याभावात् स्सटो निवृत्तिः प्राप्नोत्येव ।
प्रमापकं त्वस्य "नेर्मादा-" ॥२।३७९॥ इति सूत्रस्य "द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा" ॥२॥३॥८१॥ इति सूत्रानन्तरोपन्यास; तत्र द्वित्वेऽपीत्यनुवर्त्तनं चाकृत्वा "नेर्मादा-" ॥२॥३॥७९॥ इति सूत्रे ङ्मादिधातूनां सामान्यनिर्देशः । तथाहि । नेर्णत्वं तावत् प्रणिपतति इत्यादिवत् प्रणिपपातेत्यादावपीष्टम् । तच्च तदैव सिद्ध्यति यदि "नेमादा-"॥२॥३७९॥ इति सूत्रं "द्वित्वेऽप्यन्तेऽप्यनितेः" ॥२।३।८१॥ इति सूत्रानन्तरं क्रियते, तत्र च द्वित्वेऽपीत्यनुवर्त्यते । एवं हि द्वित्वेऽप्यद्वित्वेऽपि च ङ्मादिधातुषु परेषु निर्विवादं नेर्णः सिध्यति । यत्तु तथा न कृतं किन्तु सामान्येन ङ्मादिधातव एव पठितास्तज्ज्ञायते प्रणिपततीत्यादिवत्प्रणिपपातेत्यादावपि "नेर्मादा-" ॥२॥३७९॥ इत्यनेनैव णत्वं सेत्स्यति; द्वित्वजस्य पस्य धातोः स्वाङ्गत्वात् स्वाङ्गमव्यवधायि इति च न्यायसद्भावादित्याशयैव ।।
___स्वाङ्गमिति किम् । पराङ्गस्य तु व्यवधायित्वमेव यथा स्यात् । तेन संचस्कारेत्यत्रैव धात्वङ्गेन द्वित्वेन सम्स्सटोळवधानं स्यादेव । तेन च "स्सटि समः" ॥१३॥१२॥ "लुक्" ॥१।३।१३॥ इति सूत्राभ्यां समो मस्य सकारलुकौ न ।
अस्य च व्यभिचारित्वाद् "वेः स्कन्दोऽक्तयोः" ॥२॥३५१॥ इति षत्वसूत्रे
D५६
-