________________
२/१२, १३]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
द्वित्वसहितस्य स्कन्दोऽग्रहणाद्विचिस्कन्त्सतीत्यादौ न षत्वम् । सव्यभिचारत्वप्रतिष्ठापकं तु प्रतितष्ठावित्यादौ द्वित्वव्यवधानेऽपि षत्वार्थं "स्थासेनिसेधसिचसञ्जां द्वित्वेऽपि " ॥२॥३॥४०॥ इति सूत्रे द्वित्वेऽपीत्युक्तिः । सा हि द्वित्वे कृते सति तस्य स्वाङ्गत्वेऽप्येतन्न्यायस्य सव्यभिचारत्वाद्व्यवधायित्वं भविष्यतीत्याशङ्कया कृता ।
पूर्वन्यायश्चास्यैव प्रपञ्चः; आगमानामप्यवयवतया स्वाङ्गत्वाव्यभिचारात् ॥ ११ ॥ उपसर्गो न व्यवधायी ॥ १२ ॥
उपसर्गस्य धातोः प्राक् प्रयोग इत्येतावदेव " धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थातिवर्जः प्रादिरुपसर्गः प्राक् च ॥ ३ | १ | १ ॥ इति सूत्रेण नियमितं न पुनस्तद्रवयवत्वमित्यतो विभक्त्यन्तत्वेन पृथक् पदत्वाच्चोपसर्गस्य व्यवधायित्वे प्राप्तेऽयं न्याय: । यथा 'उक्षां प्रचक्रुर्नगरस्य मार्गान् । अत्र "गुरुनाम्यादेः " ॥ ३।४।४८ ॥ इत्यामादेशे कृते आमन्तस्य कृगश्च प्रेण न व्यवधानम् । अयं भावः । कृभ्वस्ति चानु तदन्तमित्यत्रानुशब्दस्य तावदयमर्थः । व्यवहितो विपर्यस्तो वा कृभ्वस्तीनां प्रयोगो न कार्यः, किन्त्वनन्तर एवाग्रे एव च कार्य इति । यदि चात्र प्रेण व्यवधानं स्यात्तदाऽयं प्रयोगोऽसाधुरेव स्यात् । परमेतन्यायबलेन प्रेण व्यवधानाभवनात् साधुरेवेति ।
अनुमापकं त्वस्य कर्मणः पराद्गायतेष्टक् विधायके "गायोऽनुपसर्गाट्टक् ॥५॥१॥७४॥ इति सूत्रे उपसर्गवर्जनम् । तद्धि साम गायतीति टकि सामगी स्त्री इत्यादाविव, साम संगायतीति सामसंगायीत्यत्र सोपसर्गाद्रायतेष्टक् मा भूत्किन्तु "कर्मणोऽण्” ॥५।१।७२॥ इत्यणेव भवतादित्येवर्थं कृतम् । यदि चायं न्यायो न स्यात्तदा " गायष्टक् " इत्यपि सूत्रे कृते साम संगायति इत्यत्र टक्प्राप्तिरेव नास्ति; समा व्यवधानेन गायः कर्मणः परत्वाभावादित्युपसर्गवर्जनं व्यर्थमेव स्यात् । तथापि यदुपसर्गवर्जनं कृतं, तदेतन्न्यायात् कर्मगायत्योरुपसर्गेण व्यवधानं न भविष्यति । तथा च सामगीत्यत्रवत्, साम संगायीत्यत्रापि टक्प्राप्त्या सामसंगीत्यनिष्टं रूपमापत्स्यते इत्याशङ्कयैव ।
""
अयं च नैकान्तिकस्तेन समागच्छतीत्यत्र आडा व्यवधानात् "समो गमृच्छिप्रच्छिश्रुवित्स्वरत्यर्त्तिदृशः " || ३ | ३|८४ ॥ इत्यात्मनेपदं न ॥ १२ ॥
येन नाव्यवधानं तेन व्यवहितेऽपि स्यात् ॥ १३ ॥
यत्र येन वर्णादिनाऽवश्यं व्यवधानं स्यात् न त्वव्यवधानं, तत्र तद्व्यवधानेऽपि तत्कार्यं स्यादेव । अप्राप्ते प्रापणार्थोऽयं न्याय: । एवमुत्तरयोरपि वाच्यम् । यथा चार्वी गुर्वीत्यादौ स्वरोकारयोरेकव्यञ्जनान्तरितत्वेऽपि "स्वरादुतो गुणादखरोः " || २ | ४ | ३५ ॥ इति
I
૫૭