________________
[न्या. सू. २/१४
न्यायसङ्ग्रहस्य
ङीः सिद्धः । स्वरात्परस्याव्यवहितस्य उतो गुणवाचिशब्देष्वसंभवात् ।
निवेदकं त्वस्य "स्वरादुत - " || २|४|३५ ॥ इति सूत्रे स्वरादुत इत्युक्तिरेव । तथाहि । स्वरात्परो य उकारस्तदन्ताद्गुणवाचिनाम्नः खरुवर्जितात् स्त्रियां ङीर्वा स्यादिति ह्येतत्सूत्रार्थः । यदि चायं न्यायो न स्यात्तदा स्वरात्परस्याव्यवहितस्य उकारस्य गुणवाचि - शब्देषु कुत्राप्यसंभवादत्र स्वरादुत इत्युक्तिर्वैयर्थ्यादसङ्गतैव स्यात् । तथापि सा तत्स्वरोकारयोरवश्यंभाविन एकव्यञ्जनव्यवधानस्यैतन्यायबलादगणने स्वरात्पर उकार इत्युक्तिर्नासङ्गता भाविनीत्याशयैवेति । तथा खरुवर्जनमप्यस्य ज्ञापकम् । तथाहि । स्वरात्परो य उकारस्तदन्तान्नाम्नो ङीः स्यादित्युक्ते खरुशब्दाद् ङीप्रसङ्ग एव नास्ति; स्वरोकारयोर्व्यञ्जनेन व्यवधानात् । तथापि यत् खरुवर्जनं कृतं तज्ज्ञापयति स्वरोकारयोरेकव्यञ्जनव्यवधानमवश्यं स्यादेवेति कृत्वा एतन्यायबलादेकव्यञ्जनव्यवधानं सदपि न गण्यते इति । तथाच खरुशब्देऽप्येकेनैव व्यञ्जनेन व्यवधानसद्भावात् "स्वरादुत- ' इत्यप्युक्ते ङीप्रसङ्गः स्यादिति हेतोः खरुवर्जनम् ।
11
॥२॥४॥३५॥
येन नाव्यवधानमिति किम् । ज्युंङ् गतौ इत्यस्माण्णिगि सनि च जुज्यावयिषति; अत्र निमित्तभूताया अवर्णान्ताया अन्तस्थाया जेन व्यवधानाद् द्वित्वे सति पूर्वस्य उकारस्य 'ओर्जान्तस्थापवर्गेऽवर्णे" ||४|१| ६० ॥ इति इर्न, यतो यत्राव्यवधानं न संभवत्येव तत्रैव व्यवहितमाद्रियते नान्यत्र । 'ओर्जान्तस्था - " ||४|१ |६० ।। इत्यत्र तु यियविषतीत्यादावव्यवहितोऽप्यन्तस्था संभवति; ततो जुज्यावयिषतीत्यत्र व्यवहितान्तस्थाय़ा न ग्रहणम् । अस्या अनात्यन्तिकता तु नाभाति ॥ १३ ॥
44
ऋकारापदिष्टं कार्यं लृकारस्यापि ॥ १४ ॥
यथा कृपौङ: सनि ‘“वृद्भयः स्यसनोः” ॥३॥३॥४५॥ इति परस्मैपदे चिक्लृप्सति; अत्र निर्निमित्तत्वात्प्रथमं "ऋरलृलं कृपोऽकृपीटादिषु " || २|३ | ९९ ॥ इति ऋत लृत्वे पश्चाद् द्वित्वे "ऋतोऽत्" ॥४। १ । ३८ ॥ इत्यनेन लृतोऽप्यत् सिद्धः ।
संवादकं त्वस्य " दूरादामन्त्र्यस्य - " ॥७।४।९९ ।। इति सूत्रे ऋवर्जस्वरस्य प्लुतत्वमुक्त्वाऽपि पुनर्तृग्रहणम् । तद्धि ऋनिषेधे एतन्न्यायाद् लृनिषेधोऽपि मा प्रसाङ्क्षीदित्यतः कृतम् ।
""
चलश्चायम् । 'ऋलृति ह्रस्वो वा " || १ | २|२॥ इत्यत्र ऋलृतोरुभयोरुक्तेः । यद्यपि च " दूरादामन्त्र्यस्य- ' ॥७।४।९९॥ इत्यस्य वृत्तौ ऋवर्णग्रहणे लवर्णस्यापीति रीत्याऽयं न्यायः पठितोऽस्ति; तथापि लृकारस्य प्रायः क्वचित्प्रयोगायोगाद् ऋकारापदिष्टं लृकारस्यापि इत्येवात्रोचानम् । “ऋरलृलम्-' ॥ २।३।९९॥ इत्यस्य न्यासे एवमपि पाठ
11
૫૮