________________
२/१५, १६] दर्शनाच्च ॥ १४ ॥
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
'सकारापदिष्टं कार्यं तदादेशस्य शकारस्यापि ॥ १५ ॥
तदादेशस्येत्यनेन भूतपूर्वकस्तद्वदुपचार इति न्यायस्यैव प्रपञ्चोऽयमिति ज्ञेयम् । यतो यः किल सकारादेश: शकारः स भूतपूर्वकरीत्या सकार एव गण्यते इत्येवास्य तात्पर्यम् । उदाहरणं यथा । पस्च् गतौ । अस्य " षः सोऽष्ट्यैष्ठिवष्वष्कः " ॥२॥३॥९८॥ इति षस्य से “सस्य शषौ” || १ |३ | ६१ ॥ इति स्वः सस्य शे यङ्लुपि दिवि "व्यञ्जनाद्देः-" ॥४।३।७८॥ इति तल्लुक्येतन्न्यायात् "संयोगस्यादौ स्कोर्लुक् " ॥२॥१॥८८॥ इति सकारा - देशस्य शस्य लुकि, चस्य कत्वे च असासक् इति सिद्धम् । तदादेशस्येति किम् । भवान् शेते; अत्र शस्य "ड्नः सः-' || १ | ३ | १८ || इति न त्सः ।
11
"
ज्ञापकं त्वस्य "ड्नः सः त्सोऽश्चः " ॥१ | ३ | १८ ॥ इत्यत्र श्चवर्जनम् । तद्धि भवान् श्चोततीत्यादौ शस्य त्सत्वाभावार्थम् । एतन्यायाभावे च शस्य त्सत्वप्राप्तिरेव नास्ति "ड्नः सः - ' ॥ १।३।१८॥ इति भणनात् । एवं सत्यपि यत् श्चवर्जनं कृतं तदेतन्यायं ज्ञापयति । ननु श्चवर्जनेन सकारापदिष्टं शकारस्यापीत्येतावन्मात्रस्यैव ज्ञप्तिः कृता; चमध्येऽविशिष्टस्यैव शकारस्य दर्शनात् । तेन तदादेशस्येत्यंशस्यान्यत्किमपि ज्ञापकं वाच्यम् । मैवम् । अस्यैव ज्ञापकस्याखण्डस्यापि न्यायस्य ज्ञापने सामर्थ्यसद्भावात् । कथमिति चेत् । उच्यते । अश्च इत्यनेन तावत् श्च्युत्यादीनां श्चो वर्ज्यते; न त्वन्यः कश्चिदसंभवात् । तस्मिंश्च चे शः सकारादेश एवास्ति; " सस्य शषौ " ॥ १।३।६१ ॥ इत्यनेन तस्य कृतत्वात् । ततश्च सकारादेशस्यैव श्चस्थशकारस्य सकारकार्यं ज्ञापयता श्चवर्जनेना'खण्डोऽप्ययं न्यायो ज्ञापित एव ।
चञ्चलता त्वस्य न नश्चेतसि चञ्चूर्यते ॥ १५ ॥
ह्रस्वदीर्घापदिष्टं कार्यं न प्लुतस्य ॥ १६ ॥
ह्रस्वदीर्घस्थाननिष्पन्ने प्लुते भूतपूर्वकस्तद्वदिति न्यायेन ह्रस्वदीर्घनामोच्चारोक्त. कार्याणां प्राप्तौ तन्निषेधार्थोऽयं न्याय: । तत्र ह्रस्वापदिष्टं यथा । हे राज३निह । अत्र परत्वान्नित्यत्वाच्चरादामन्त्र्यस्य-' ॥७।४।९९॥ इत्यनेन पूर्वं प्लुते कृते तस्मात्परस्य नस्य " ह्रस्वान् ङणन- ॥ १।३।२७॥ इति न द्वित्वम् ।
11
11
अत्रांशे ज्ञप्तिकरं त्वस्य "हूस्वान् ङणन- ' ||१|३|२७ ॥ इति सूत्रे हुस्वादिति सामान्योक्तिरेव । तथाहि । अप्लुतरूपात् ह्रस्वात्तावत् ङणनां द्वित्वमिष्टम्; प्लुतरूपात्तु नेष्टम् । तथापि सूत्रे स्वादिति सामान्येनैव यदूचे तदेतन्न्यायाशयैव ।
11
૫૯