________________
न्यायसङ्ग्रहस्य -
[न्या. सू. २/१७ - दीर्घापदिष्टं यथा । “अदीर्घाद्विराम-" ॥१॥३॥३२॥ इति सूत्रे दीर्घवर्जनेऽपि, दीर्घस्थाननिष्पन्नप्लुतस्यैतन्यायबलेन वर्जनं न जातम् । तथाच हे गो३ त्रात, हे गो३ त्रात इत्यत्र दीर्घस्थाननिष्पन्नप्लुतादपि परस्य तकारस्य "अदीर्घाद्विराम-" ॥१३।३२॥ इत्यनेन वा द्वित्वं सिद्धम् ।
ख्यातिकरं चास्य "अनाङ्माङो दीर्घाद्वा च्छः" ॥१।३।२८॥ इत्यनेनैव सिद्धेऽपि दीर्घस्थाननिष्पन्नात् प्लुतात्परस्य छस्य द्वित्वविकल्पार्थं "प्लुताद्वा" ॥१।३।२९॥ इति सूत्रकरणम् । तथाहि । आगच्छ भो इन्द्रभूते ३ च्छत्रमानय, आगच्छ भो इन्द्रभूते ३ छत्रमानयेत्यत्र छस्य द्वित्वविकल्पस्तावत् "अनाङ्माडो" - ॥१३॥२८॥ इत्यनेनापि यद्यसेत्स्यत् तदैतदर्थं "प्लुताद्वा" ॥१३।२९॥ इति सूत्रं नाकरिष्यत् । परमेतन्यायात् "अनाङ्माङो दीर्घात्-" ॥१३॥२८॥ इति दीर्घापदिष्टं कार्यं प्लुतस्य न भावीत्याशङ्कयैव पृथक् "प्लुताद्वा" ।१।३।२९॥ इति सूत्रं कृतम् ।
अनित्यता त्वस्य नेक्ष्यते ॥ १६ ॥ संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न तदन्तस्य ॥ १७ ॥
संज्ञेति संज्ञासूत्राणि । प्रत्ययः किल प्रकृतिमाक्षिपति, प्रकृति विना प्रत्ययानुत्पत्तेरित्यतः प्रत्ययमात्रग्रहणेनापि तदन्तग्रहणे प्राप्ते तन्निषेधार्थोऽयं न्यायः । तत्र संज्ञाधिकारे यथा; "स्त्यादिविभक्तिः" ॥१।१।१९॥ इत्यत्र स्त्याद्यन्तं विभक्तिरित्यर्थो न, किन्तु स्त्यादिरेव प्रत्ययो विभक्तिसंज्ञ इत्येवार्थः ।।
स्फातिकरं त्वस्य संज्ञासूत्राधिकरस्थिते "तदन्तं पदम्" ॥१।१।२०॥ इति सूत्रे अन्तशब्दस्तथाहि । यदि तावदयं न्यायांशो न स्यात्तदा सा पदमित्युक्तेऽपि प्रत्ययः प्रकृतिमाक्षिपतीति तदन्तविधिर्लभ्यत एवेति किमर्थमन्तशब्दः प्रयुज्येत । परमेतन्यायांशसद्भावात् "तदन्तं पदम्''॥११॥२०॥ इत्यस्मिन् संज्ञासूत्रे तदन्तविधिर्न लप्स्यते इत्याशयात्रान्तशब्दः प्रयुक्तः ।
चपलता त्वत्रांशे न प्रतिभाति ॥
उत्तरपदाधिकारे यथा । "न नाम्येकस्वरात्खित्युत्तरपदेऽमः" ॥३।२।९॥ इति सूत्रादनुवर्तमानोत्तरपदाधिकारस्थे "कालात्तनतर-" ॥३॥२॥२४॥ इति सूत्रे तनाद्याः प्रत्ययाः केवला एव ग्राह्याः, न तु तदन्तनामानि । संजोत्तरपदाधिकार इति किम् । अन्यत्र तु प्रत्ययान्तस्यैव ग्रहः । यथा “नेमार्द्धप्रथमचरमतयायाल्पकतिपयस्य वा" ॥१।४।१०॥ इत्यत्र तयायप्रत्ययान्तानामेव ग्रहणमस्ति ।
-
E0