________________
- २/१८]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । व्यक्तिकरं त्वस्योत्तरपदाधिकारस्थे "नवा खित्कृदन्ते रात्रेः" ॥३।२।११७॥ इति सूत्रे अन्तशब्दस्तथाहि । यदि तावदयं न्यायांशो न स्यात्तदाऽत्रापि खित्कृतीत्येवोक्तेऽपि प्रत्ययः प्रकृतिमाक्षिपतीति तदन्तविधिर्लभ्यत एवेति किमर्थमन्तशब्दः प्रयुज्यते । परमेतन्यायांशसद्भावादत्र तदन्तविधिर्न लप्स्यते इत्याशङ्कयात्राप्यन्तशब्दः प्रयुक्तः ।
चटुलत्वाच्चात्र "नेन्सिद्धस्थे" ॥३।२।२९॥ इत्यत्रोत्तरपदाधिकारेऽपीनन्तस्य ग्रहस्तेन स्थण्डिलशायीत्यत्र इनन्ते शायिनि परे "तत्पुरुषे कृति" ॥३।२।२०॥ इत्यनेन प्राप्तायाः सप्तम्यलुपो निषेधोऽभूत् ॥ १७ ॥
ग्रहणवता नाम्ना न तदन्तविधिः ॥ १८ ॥ निर्देशे सतीति शेषः । साक्षान्नामग्रहणेन यस्य यत्कार्यमूचे तत्कार्यं तस्य नाम्नः समासादिना समुदायान्तभूतस्य सतो न स्यात् । यथा सूत्रप्रधानो नडः सूत्रनडस्तस्यापत्यम् "अत इञ्" ॥१॥३१॥ इतीञि, अनुशतिकादित्वादुभयपदवृद्धौ, सौत्रनाडिः; अत्र सूत्रनडशब्दात् “नडादिभ्य आयनण्" ॥६१५३॥ इत्यायनण नाभूत् ।।
ननु काऽत्र न्यायापेक्षा, सूत्रनड इत्यस्य नडादिभ्योऽन्यत्वेनायनणः प्राप्तेरेवाभावात् । उच्यते । गवेन्द्र इत्यत्रवद् गवेन्द्रयज्ञ इत्यनेन्द्रयज्ञशब्देऽपि परे इन्द्ररूपावयवप्राधान्यविवक्षया "इन्द्रे" ॥१२॥३०॥ इत्यनेनाव आदेशो यथा स्यात्तथाऽत्र नडरूपावयवप्राधान्यविवक्षायां सूत्रनडशब्दादप्यायनण प्राप्नोति; परमेतन्न्यायेन निषिद्धत्वादेव न स्यात् । इत्थं चावयवप्राधान्यविवक्षा यदि क्रियते तदैवास्य न्यायस्यावकाशः स्यात् । अन्यथा तु नामग्राहमुक्तं कार्यं तदन्तस्य कापि प्राप्नोत्येव नेति निरवकाशत्वमेवास्य न्यायस्य प्रसज्येत । ततश्च नामग्राहमुक्तस्य कार्यस्यावयवप्राधान्यविवक्षया तन्नामान्तस्यापि प्राप्तौ तनिषेधार्थोऽयं न्यायः ।
- उपपादकं चास्य "मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते" ॥२।४।१०२॥ इत्यत्रान्तेऽपीति । तथाहि । इदं तावन्मालभारतिवदुत्पलमालभारीत्यादावपि हुस्वसिध्यर्थं कृतम् । यदि चावयवप्राधान्यविवक्षया मालावदुत्पलमालेत्यादेरपि हुस्वः प्राप्नुवन् स्यात्तदा किमर्थमन्तेऽपीति कुर्यात् । परं मालेत्यस्य नामग्राहं विहितो ह्रस्व एतन्न्यायादुत्पलमाला इत्यादेर्न प्राप्नोतीत्यतोऽन्तेऽपीति करणं सफलम् ।
अस्य च तरलत्वात्, द्वयाश्रये 'प्रियासृजोऽसावपृणदद्विडस्ना' (सर्ग २ श्लो० ६७) इत्यत्र प्रियासृजो द्विडस्ना इति स्थानद्वये समासान्तगस्याप्यसृजो "दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नुदन्दोषन्दोषन्दोर्यकञ्छकन्वा" ॥२।१।१०१॥ इति .वा असनादेशः । तरलत्वनिवेदकस्तु "केवलसखिपतेरौः"
% 3DE१
=