________________
न्यायसङ्ग्रहस्य
[ न्या. सू. २/१८ ॥१।४।२६॥ इत्यत्र केवलशब्दः । स हि प्रियसखौ नरपतावित्यादौ ङे रौत्वाभावार्थः । यदि चायं न्यायोऽतरलः स्यात्तदा सखिपतेरौरित्यपि सूत्रे कृते प्रियसखौ नरपतावित्यादौ औत्वनिषेधः सिध्यत्येवेति किमर्थं केवलशब्दः प्रयुज्येत; यत्तु प्रयुक्तस्तदेतन्यायस्य तरलत्वादेवेति ।
उपपदविधिषु न तदन्तविधिः इत्यपि न्यायोऽस्ति । अस्यार्थः । यत्रामुकोपपदाद्धतोरमुकः प्रत्ययः स्यादिति विधीयते तत्र तदुपपदं यदि समासादिनाऽन्तभूतं स्यात्तदा स विधिर्न स्यात् । यथा योगक्षेमौ करोतीतिशीला योगक्षेमकरी; अत्र क्षेमशब्दस्य समासान्तगत्वात् 'क्षेमप्रियमद्रभद्रात् खाण्" ॥५।१।१०५ ॥ इत्यनेन क्षेमोपपदकृगो विहितौ खाणौ न । किन्तु 'हेतुतच्छीलानुकूलेऽशब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदात्” ।।५।१।१०३॥ इति ट एव । खाणोर्भवने तु योगक्षेमंकरा, योगक्षेमकारीतिचात् i
ज्ञापकं त्वस्य “नग्नपलितप्रियान्धस्थूलसुभगाढ्यतदन्ताच्च्व्यर्थेऽच्वेर्भुवः खिष्णुखकञौ” ॥५।१।१२८॥ इति सूत्रे तदन्तग्रहणम् । तथाहि । इदं तावदनग्नो नग्नो भवतीति नग्नंभविष्णुर्नग्नभावुक इत्यादाविव, अननग्नो अनग्नो भवत्यनग्नंभविष्णुरनग्नंभावुक इत्यादावपि खिष्णुखुकञ्प्रत्ययार्थम् । यदि च उपपदविधिषु न तदन्तविधिरिति न्यायो न स्यात्तदा अनग्नंभविष्णुरित्यादावपि नग्नशब्दादिरूपावयवप्राधान्यविवक्षया खिष्णुखुकञ सिध्यत एवेति कुतस्तदर्थं तदन्तग्रहणं क्रियते । यत्तु कृतं तदेतन्न्यायशङ्कयैवेति । परं ग्रहणवता नाम्नेति न्यायेनायमपि न्यायः स्वकुक्षावेव निक्षिप्तः । उपपदविधिष्वप्युपपदानां नामान्येव गृहीत्वा कार्याणामुक्तत्वात् ॥
64
तथा ग्रहणवता नाम्ना न तदादिविधि: इत्यपि न्याय: सोदाहरणज्ञापकोऽर्थतो व्याकरणे दृश्यते । तथाहि । न्यङ्कुशब्दस्यौणादिकस्याव्युत्पत्तिपक्षे, न्युङ्कोर्मृगविशेषस्येदं नैयङ्कवं, न्याङ्कवमित्यत्र यथा 'न्यङ्कोर्वा " || ७|४|८ ॥ इत्यनेन न्यङ्कुशब्दस्य यकारात्प्रागैकारो विकल्पेन स्यात्तथा न्युङ्कुचर्मण इदं न्याङ्कुचर्मणमित्यत्रावयवप्राधान्यविवक्षया प्राप्तोऽपि " न्यङ्कोर्वा" || ७|४|८॥ इत्यैकारविकल्पो न स्यात्; एतन्न्यायेन निषेधात् ।
ज्ञापकं चास्य " द्वारादेः " || ७|४ | ६ ॥ इत्यत्र द्वारादीनां तदादिविधेरवयवप्राधान्यविवक्षया प्राप्तस्याप्येतन्यायेन निषिद्धत्वात्तत्प्रतिप्रसवकरणार्थं 'न्यग्रोधस्य केवलस्य " ॥७।४।७ ॥ इति सूत्रकरणम् । तथाहि । द्वारे नियुक्त इति वाक्ये " तत्र नियुक्ते " ॥६॥४॥७४॥ इत्यनेनेकणि दौवारिक इत्यत्र " द्वारादेः " || ७|४ | ६ | इत्यनेन केवलस्य द्वारशब्दस्य वकारात्यागौकारो यथा स्यात्तथा द्वारपालस्यापत्यं दौवारपालिरित्यत्र द्वारशब्दादिकस्य द्वारपालेति रूपसमुदायस्यापि वकारात्प्रागौकार इष्टः; स चावयवप्राधान्यविवक्षया सिध्यन्नेवाभूत्, परं ग्रहणवता नाम्ना न तदादिविधिरिति न्यायेन निषिद्धस्ततो द्वारादीनां तदादिविधिरपि स्यात्;
૬૨
44