________________
- २/१९]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । न्यग्रोधस्य तु तदादिविधिर्न स्यात् किन्तु केवलस्यैव स्यादित्यनया रीत्या द्वारादीनां तदादिविधिभवनज्ञापनार्थं "न्यग्रोधस्य केवलस्य" ॥७॥४७॥ इति सूत्रं कृतम् ।
अस्यार्थादि चैवम् । णिति तद्धिते परे न्यग्रोधशब्दस्य केवलस्य यो यकारस्तस्मात्प्रागैकारः स्यात् । यथा न्यग्रोधस्य विकारो नैयग्रोधो दण्डः । केवलस्येति किम् । न्यग्रोधमूले भवा न्याग्रोधमूलाः शालय इति । तदयं भावः । द्वारादीनां तदादिविधिस्तावत्सूरेरिष्टः; न्यग्रोधस्य तु नेष्टः । यदि च ग्रहणवता नाम्ना न तदादिविधिः इत्ययं न्यायो न स्यात्तदा न्यग्रोधशब्दं द्वारादिमध्ये एव पठित्वा एवमुच्यते; यदुत द्वारादीनामवयवप्राधान्यविवक्षा क्रियते, तेन तदादिविधिरपि स्यात् । न्यग्रोधस्य तु नानिष्टार्थेति न्यायादवयवप्राधान्यविवक्षाया अकरणेन केवलस्यैव स्यान्नतु न्यग्रोधादिसमुदायस्येति । एवं च यथेष्टमेव सर्वे प्रयोगाः सिध्येयुः । तथापि यत्सूरिणेत्थं न कृतं, तत्रायमेवाभिसन्धिर्यदुत विवक्षास्तदैव सफलीस्स्युर्यदि तासां बाधकः कश्चिन्यायो न स्यात्; इह तु, 'ग्रहणवता नाम्ना न तदादिविधि' इति न्यायोऽस्ति; तेन च न्यग्रोधस्य केवलस्यैव य ऐकारविधिरिष्यमाणोऽस्ति स एव सिद्धयति द्वारादीनां तु यस्तदादिविधिरिष्टोऽस्ति स प्रत्युत बाध्यते । तेन द्वारादीनां तदादिविधिभवनं कथमपि ज्ञापितं विलोक्यते इति विचिन्त्य तज्ज्ञापनार्थं "न्यग्रोधस्य केवलस्य" ॥७॥४७॥ इति सूत्रं कृतम् । तेन च एवं ज्ञापितं, यदुत न्यग्रोधस्य केवलस्यैव स्यात्, द्वारादीनां तु तदादिविधिरपि स्यादिति । तदेवं द्वारादीनां तदादिविधिज्ञापनाय यत् "न्यग्रोधस्य केवलस्य' ७।४७॥ इति सूत्रं कृतं तदेतन्यायशङ्कयैवेति । परमेतस्य न्यायस्येदृक् सूत्रपाठः साक्षात् क्वापि न दृष्ट इत्यतोऽसौ पृथग् न दर्शितः ॥ १८ ॥ . . अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्ति ॥ १९ ॥
अन् - इन् - अस् - मन् - इत्येषां ग्रहणान्यर्थवताऽनर्थकेन च स्वेनेति शेषः । तदन्तविधिमनन्तादिविधिं प्रवर्त्तयन्ति । अनाद्यन्तानां कार्ये कर्त्तव्ये सार्थकवदनर्थका अप्यनादयो ग्राह्या इत्यर्थः । अर्थद्ग्रहणे ० इत्यस्यापवादोऽयं न्यायः ।।
. तत्रान् सार्थको यथा । राजिधातोः "उक्षितक्षि-" ( उणा-९००) इत्यौणादिके अनि, राजा । स्त्री चेद्राज्ञी, "स्त्रियां नृतोऽस्वस्त्रादे8:" ॥२।४।१॥ इति ङीः । अनर्थको यथा । अश्नोतेः “षप्यशौभ्याम्-" (उणा-९०३) इत्यौणादिके तनि अष्टन्; ततो बहुव्रीहौ प्रियाष्ट्णः पश्य । उभयत्रापि "अनोऽस्य" ॥२।१।१०८॥ इत्यनो अल्लोपः सिद्धः । इन् सार्थको यथा । दण्डोऽस्यास्ति "अतोऽनेकस्वरात्" ॥७॥२६॥ इतीनि, दण्डी । अनर्थको यथा । स्रगस्यास्ति "अस्तपोमायामेधास्रजो विन्" ॥७।२।४७॥ इति विनि,
E3
=