________________
न्यायसङ्ग्रहस्य -
[न्या. सू. २/२० - स्त्रग्वी । उभयत्रापि "इन्हन्पूष-" ॥११४८७॥ इति दीर्घः । अस् सार्थको यथा । आप्नोते: “आपोऽपाप्ता-" ( उणा-९६४) इत्यौणादिके असि, धातोरप्सरादेशे च, अप्सराः । अनर्थको यथा । खरस्येव नासिकाऽस्य "खरखुरान्नासिकाया नस्" ॥७।३।१६०॥ इति नासिकाया. नसादेशे, खरणाः । उभयत्रापि “अभ्वादे:-" ॥१।४।९०॥ इति दीर्घः । मन् सार्थको यथा । स्यतेः "स्यतेरीच्च वा" ( उणा - ९१५) इत्यौणादिके मनि, स्येतेरात ईत्त्वे च; सीमा । अनर्थको यथा । महतो भाव : "पृथ्वादेरिमन्वा" ॥७।१५८॥ इति इमनि, महिमा; तमतिक्रान्ता अतिमाहिमा स्त्री । उभयत्रापि "मनः" ॥२।४।१४॥ इति ङीनिषेधः । उपलक्षणादतुरपि सार्थकवदनर्थकोऽपि ग्राह्यः । तत्र सार्थको यथा । किं प्रमाणमस्य "इदं किमोऽतुरिप्किय् चास्य" ॥७।१।१४८॥ इत्यतुप्रत्यये किमः कियादेशे च कियान् । अनर्थको यथा । गावोऽस्य सन्ति "तदस्यास्त्यस्मिन्निति मतुः" ॥७।२।१॥ इति मतौ, गोमान् । उभयत्रापि "अभ्वादे:-" ॥१।४।९०॥ इति दीर्घः ।
उद्गावकं त्वस्य न्यायस्यासलक्षणेऽशे "अभ्वादेरत्वस-" ॥१।४।९०॥ इत्यत्राभ्वादेरिति । तथाहि । पिण्डं ग्रसते इति क्विपि पिण्डग्र इत्यादौ, दीर्घनिषेधार्थं तावदभ्वादेरित्युक्तम्, तत्र च प्राप्तिरेव नास्ति; ग्रसतेरसोऽनर्थकत्वाद् अर्थवद्ग्रहणे ० इति च . न्यायात् । परमेतन्यायादनर्थकस्याप्यसो दीर्घप्राप्ति संभाव्याभ्वादेरित्युक्तम् । न च पिण्डग्र इत्यादि विनाऽपि; स्त्रियमसतिस्यति वेति क्विपि, स्त्र्यः इत्यादौ अस्धातोर्दीर्घत्वनिषेधार्थं "अभ्वादेः-" ॥१।४।९०॥ इत्युक्तं भावीति वाच्यम् । यत एतन्मात्रनिषेधार्थत्वे अनसोऽत्वस इति सूत्रं कृत्वा अस्थातुवर्जस्यासन्तस्येति व्याख्यायेत । यत्तु तथा अकृत्वा "अभ्वादेः" - ॥१।४।९०॥ इति व्यापकं वचः प्रोचे, तत्पिण्डिग्र इत्याद्यपेक्षयैवेति ।
___ अस्य च न्यायस्य इनशे शैथिल्यात् सुपथी स्त्रीत्यत्र पथिन्शब्दस्यौणादिकत्वाद् अव्युत्पत्तिपक्षे इनोऽनर्थकत्वात् "इनः कच्" ॥७।३।१७०॥ इति कच् नाभूत् । एवं शेषांशेष्वपि ज्ञापकं शैथिल्यं चोद्भाव्यम् ॥ १९ ॥
गा - मा - दा - ग्रहणेष्वविशेषः ॥ २० ॥ यत्र गा - मा - दा इति सूत्रे निर्दिष्टं स्यात्तत्र गाङ् गतौ; गैं शब्दे इत्येतौ; मांक माने, मांङ्क् मानशब्दयोः, मेंङ् प्रतिदाने इत्येते; दारूपाश्चाविशेषेण ग्राह्याः । लक्षणप्रतिपदोक्तयोः० इत्यादिन्यायानां यथायोगमपवादोऽयं न्यायः । तथैव चाग्रे दर्शयिष्यते ।
तत्र गा - ग्रहणे यथा गातेर्गायतेर्वा यङ्लुपि आशी:क्याति, जागेयाद् ग्राम गीतं वा; अत्रोभयोरपि "गापास्थासादामाहाकः" ॥४।३।९६॥ इति एः सिद्धः । अन्यथा