________________
२/२०]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
गायतेर्गारूपस्य लाक्षणिकत्वाद् लक्षणप्रतिपदोक्तयोरिति न्यायेन प्रतिपदोक्तगारूपस्य गातेरेव ग्रहणं प्राप्नोति न तु गायतेः । यद्वा । कृत्रिमाकृत्रिमयोः ० इति न्यायात् कृत्रिम - गारूपस्य गायतेरेव ग्रहणं प्राप्नोति, न तु गातेरिति । संभावकं त्वत्र "गायोऽनुपसर्गाट्टक्' ॥५।१।७४॥ इत्यत्र गातिं निषेद्धुं गाय इति निर्देशः ।
11
11
अत्रांशे क्वचित् स्थगनीयश्चायम् । “गस्थकः' || ५ | १।६६ ॥ इत्यत्र ग इति सामान्यनिर्देशेऽपि गाङव्युदस्य गायतेरेव ग्रहणात् ॥१॥
"
मा - ग्रहणे यथा । मात्योर्मयतेश्च क्तयोर्मितः, मितवान् । अत्र " दोसोमास्थ इः'' ॥४|४|११॥ इति इः । संभावकं त्वत्र " ईर्व्यञ्जनेऽयपि " ||४|३|९७॥ इत्यस्य वृत्तौ मा इति मां - मांङ् - मेङां ग्रहणमित्युक्तिः । एतन्यायांशाभावे हि मा इतिकथने अदाद्यनदाद्योरिति न्यायात् कृत्रिंमाकृत्रिमयोरिति न्यायाद्वा मेंङ एव ग्रहणं प्राप्नोति न तु मात्योः । यद्वा लक्षणप्रतिपदोक्तयोरिति न्यायात् मात्योरेव ग्रहणं प्राप्नोति न तु मेङ : । तथा च मां मांङ्-मेङां ग्रहणमित्युक्तिरसङ्गतैव स्यात् ।
अत्राप्यंशेऽस्य परिप्लवत्वात् "मिमीमादामित्स्वरस्य" ||४ |१| २० ॥ इत्यत्र सामान्येन ग्रहणार्थं बहुवचनयत्नः कृतः । यदि ह्येष न्यायांशोऽपरिप्लवः स्यात्तदाऽनेनैव सामान्यग्रहणसिद्धेः किमर्थं बहुवचनयत्नः क्रियेति ॥२॥
11
दा
ग्रहणे यथा । "प्राज्ज्ञश्च ॥ ५ ॥ १ ॥७९॥ इत्यत्र ज्ञारूपसाहचर्याद्दारूपमेव प्रत्यत्राग्रहः कार्यो न तु दासंज्ञां प्रति इत्येतावदेव संसाध्य तदन्वेतन्यायबलादविशेषेण षड्भ्योऽपि दारूपेम्यो डः कृतः । यथा डुदांग्क्, दाम् वा; धनप्रदः । दों; वृक्षप्रदः । देङ्; पुत्रप्रदः । दांव्क; केदारप्रदः । दैव्; भाजनप्रद इति । एतन्यायांशाभावे तु अदाद्यनदाद्योरिति न्यायाद्दांग्क्दांव्क् वर्जानां चतुर्णामेव ग्रहणं प्राप्नोति । यद्वा । लक्षणप्रतिपदोक्तयोरिति न्यायाद् दोंदेंङ्र्दैव्वर्जानां त्रयाणामेव । यद्वा । कृत्रिमाकृत्रिमयो: ० इति न्यायाद्दांग्क्दाम्दांव्क्वर्जानां त्रयाणामेवेति ।
-
सद्भावकरं त्वत्रांशे " दाट्धेसिशदसदो रुः " || ५ | २३६ ॥ इत्यत्र धयतेः पृथ-गुक्त्या दासंज्ञां प्रत्याग्रहोत्र न कार्य इत्येव वक्तुं शक्येऽपि षडपि दारूपा इह ग्राह्या इत्ययुक्तिः । तथाहि । धयतेः पृथगुक्त्या तावद्दासंज्ञां प्रत्याग्रहस्य निरासोऽत्र सिध्यतु, दारूपषट्कग्रहस्तु कथं सिध्यति ; अदाद्यनदाद्यो: ० इत्यादिन्यायैर्बहुविघ्नत्वात् । तथापि यद्दारूपाः षडपीह ग्राह्या इत्युक्तं तत्प्रस्तुतन्यायं अदाद्यनदाद्योः ० इत्यादिन्यायानामपवादं स्मृत्वैवेति । अत्रांशे पारिप्लवता त्वस्य न दृश्यते ॥३॥
स्वं रूपं शब्दस्य इत्यस्य न्यायांशस्य प्रपञ्चोऽयं न्याय: । इतोऽग्रे बलाबलो -
૬૫