________________
क्तिन्याया दश ॥ २० ॥
"
न्यायसङ्ग्रहस्य
श्रुतानुमितयोः श्रौतो विधिर्बलीयान् ॥ २१ ॥
श्रुतः सूत्रे साक्षाच्छब्देनोक्तः; अनुमितः परिभाषया, पूर्वानुवृत्ताधिकारादिना वा आरोपितः । श्रुतानुमितयोरिति संबन्धे षष्ठी । विध्योरिति चात्र शेषः । तत्र तु निर्द्धारणे षष्ठी । श्रुतस्यायं ‘"तस्येदम्" ॥६।३।१६०॥ इत्यणि, श्रौतः । ततश्चैवमर्थः । श्रुतानुमितयोः सम्बन्धिनोर्द्वयोर्विध्योः संभवतोर्मध्ये श्रुतस्य विधिर्बलीयानिति स एव क्रियते । यथा "ॠतां क्ङितीर्" ॥४|४|११६ ॥ तीर्णम् । अत्र श्रुतस्य ऋत एव इर्, न तु " अनेकवर्णः सर्वस्य ॥७।४।१०७॥ इति परिभाषया ऋदन्तधातोः सर्वस्य । यत ॠदन्तत्वमतामित्यस्य धातुविशेषणत्वेन "विशेषणमन्तः " ॥७४॥११३॥ इति परिभाषया आरोपितत्वादनुमितमित्युच्यते । ततोऽनुमितस्य ऋदन्तत्वस्य विधिर्निर्बलत्वान्न क्रियते । दन्तस्य विधिः क इति चेत् । उच्यते । इरोऽनेकवर्णत्वात् " अनेकवर्ण:-” ॥७।४।१०७॥ इति परिभाषया यदखण्डस्य ऋदन्तधातोरिर् प्राप्नोति स ॠदन्तत्वस्य विधिरिति ।
-
[न्या. सू. २/२१
सत्ताकरं चास्य सूत्रे ॠमतामत इत्यकृत्वा ॠतामित्येव निर्देशस्तथाहि । ऋतामित्यस्य तावद् ऋदन्तानामिति व्याख्या । इर् चादेशो ऽनेकवर्णः । ततश्च " अनेकवर्ण:-" ||७|४|१०७॥ इति परिभाषया सर्वस्य ॠदन्तधातोरिर् प्राप्नोति । इष्यते तु ऋमात्रस्यैव । तथाच “अनेकवर्ण: ॥७।४।१०७॥ इति परिभाषाया अवकाशनिरासाय ऋतामत इर् इति निर्देष्टुं युक्तम् । यत्तु ऋतामित्येव निर्दिष्टं तदेतन्यायात् श्रुतस्य ऋत एवेर् भावी, न त्वनुमितस्य ऋदन्तस्येत्याशयैव ।
अस्य च असार्वदिक् त्वात् " मनोरौ च वा " || २|४| ६१ ॥ इत्यत्र वाशब्दो ङीप्रत्यये पूर्वाधिकारानुवृत्तत्वादनुमिते सम्बध्यते, न तु श्रुते औकारें । तेन मनोर्भार्या, धवयोगे " मनोरौ च वा" || २|४| ६१ ॥ इति वा ङयां, ङीयोगे मनावी, मनायी, मनुरिति त्रैरूप्यं सिद्धम् । औ चेत्यस्य वाशब्दसम्बन्धने तु ङीप्रत्ययस्य नित्यमेव भवनात्; मनावी, मनायी, मन्वी इति त्रैरूप्यं स्यात् ।
1
॥७।४।
निर्दिश्यमानस्यैवादेशाः स्युः इत्यपि न्यायोऽस्ति । यथा “यस्वरे पाद:॥२।१।१०२॥ इत्यत्र पाद इत्यस्य तावद् पादन्तस्येति व्याख्या | पादन्तस्येत्येतच्चाधिकृतस्य नाम्न इत्यस्य विशेषणम् । ततश्च पद् इत्यादेशस्यानेकवर्णत्वात् “षष्ठ यान्त्यस्य' १०६ ॥ इति परिभाषां बाधित्वा " अनेकवर्णः सर्वस्य" ॥७|४|१०७ ॥ इति परिभाषया पादन्तस्य नाम्नः सर्वस्य पद्भावः प्राप्नोति । परं पाद इत्येतावत एव स्यात्, तस्यैव सूत्रे निर्देशात् । यथा द्वौ पादावस्य द्विपात्; "पात् पादस्याहस्त्यादेः " ||७|३|१४८॥ इत्यनेन
૬૬
11