________________
- २/२२, २३]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । पादस्य पाद्भावः । ततष्टायां तेन द्विपदा; अत्र "यस्वरे पाद:-" ॥२।१।१०२॥ इत्यनेन पाद् इत्येतावत एव पद्भाव इति । परं सोऽप्येतन्न्यायस्यांशभूत एव न तु पृथग्भूतः; तत्साध्यस्याप्यनेन सिद्धेः । कथमिति चेत् । उच्यते । “यस्वरे पादः-" ॥२।१।१०२॥ इत्यत्र तावत् पूर्वाधिकारानुवृत्तं नाम्न इति पदं विशेष्यमस्ति, तस्य च पाद इति विशेषणम्। ततश्च "विशेषणमन्तः" ॥७।४।११३॥ इति परिभाषया पादन्तस्येत्यर्थो लब्धः । परमिदं पादन्तत्वं परिभाषयाऽऽरोपितत्वादनुमितमित्युच्यते । ततश्च पादन्तस्य यो विधिः, पद् इत्यादेशस्यानेकवर्णत्वात् “अनेकवर्णः-" ॥७।४।१०७॥ इति परिभाषयाऽखण्डस्य पादन्तस्य पद् इत्यादेशप्राप्तिरूपः, स निर्बलत्वान्न क्रियते; किन्तु सूत्रे श्रुतस्य पाद् इत्येतावत एव यः पद् इत्यादेशविधिः स एव बलीयस्त्वात् क्रियते इति ॥ २१ ॥
अन्तरङ्गानपि विधीन् यबादेशो बाधते ॥ २२ ॥ प्रत्ययाश्रितत्वात् पदद्वयापेक्षत्वाच्च बहिरङ्गोऽपीति शेषः । यथा प्रशम्य इत्यत्र "अहन्पञ्चमस्य विक्ङिति" ॥४।१।१०७॥ इति दीर्घत्वं प्रकृत्याश्रितत्वादेकपदापेक्षत्वाच्चान्तरङ्गमपि बाधित्वा पूर्वं यप्; पश्चात्तु धुडादिप्रत्ययाभावान्न दीर्घत्वम् ।
ख्यातिदं त्वस्य प्रजग्ध्येतिसिध्यै "यपि चादो जग्" ॥४।४।१६॥ इत्यत्र यपि चेति वचस्तथाहि । यदि क्त्वि परे जग्धादेशः पश्चाच्च या क्रियते तदाऽपि प्रजग्ध्येति सिध्यत्येव; तथापि यद् यपि चेत्यूचे तदेतन्न्यायाद्यपः सर्वकार्येभ्यः पूर्वं भवनादेव । आहुश्च - . .
तादौ किति जग्धि सिद्धे यपि चेति यदुच्यते ।
ज्ञापयत्यन्तरङ्गाणां यपा भवति बाधनम् ॥१॥ कादाचित्कता त्वस्य न चित्ते चञ्चुरीति ॥ २२ ॥
सकृद् गते स्पर्द्ध यद्बाधितं तद्वाधितमेव ॥ २३ ॥
गते इति धातूनामनेकार्थत्वाद् जाते; गत्यर्था ज्ञानार्था इति न्यायाद् ज्ञाते इति वा । द्वयोर्विध्योरन्यत्र सावकाशयोस्तुल्यबलयोरेकत्रोपनिपातः स्पर्द्धः । द्वयोः सूत्रयोः स्पर्द्ध सति यत्सूत्रं केनापि हेतुना प्रथमं बाधितं तत्सूत्रं बाधितमेवेति कोऽर्थः बाधकसूत्रप्रवृत्त्यनन्तरमपि न प्रवर्त्तते । यथा द्वयोः कुलयोः; अत्रं द्वि ओस् इति स्थिते आदेशादागम इति न्यायात्प्रथमं "अनामस्वरे-" ॥१।४।६४॥ इति नोऽन्तः प्राप्तः; स च परत्वादन्तरङ्गत्वा• च्च "आ द्वेरः" ॥२॥१॥४१॥ इत्यत्वेन बाधितस्ततस्तस्मिन् कृते, “एबहुस्-" ॥१।४।४॥ इत्येत्वे च कृते, पुनः प्राप्तोऽपि नोऽन्तो न स्यात् ।