________________
न्यायसङ्ग्रहस्य -
[न्या. सू. २/२४, २५ - स्फातिदं चास्य "उदच उदीच्" ॥२।१।१०३॥ इत्यत्र णिवर्जनम् । तद्धि उदञ्चमाचष्टे इति णौ, उदयतीति रूपसिद्धयर्थम् । तच्च उदीचादेशकरणादनु यदि "त्रन्त्यस्वरादेः" ॥७।४।४३॥ इत्यन्त्यस्वरादिलुक् प्रवर्त्यते तदाऽपि सिध्यत्येव । परं विशेषविहितत्वेनान्त्यस्वरादिलोपात्प्रागेवोदीचादेशे पश्चाच्चैतन्यायादन्त्यस्वरादिलुकोऽप्रवृत्तेः उदीचयतीत्येव स्यान्न तु उदयतीति । ततो णिवर्जनं कृतम् । तथाच उदीचादेशं विनाऽन्त्यस्वरादिलुकैव उदयतीति सिद्धम् ।
___ अस्य चानिश्चितत्वात् प्रयतिसृणः कुलस्येत्यत्र आगमात्सर्वादेश इति न्यायेन प्रथमं बाधितोऽपि नागमस्तिस्त्रादेशानन्तरं कृतः ॥ २३ ॥ द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधकः ॥ २४ ॥ .
द्वित्वे सति यः पूर्वोऽवयवस्तस्य विकारेषु कर्त्तव्येषु यो बाधको विधिः स स्वं बाध्यविधि बाधितुं न प्रभवति । स्पट्टे परः, बलवन्नित्यमनित्याद् इत्याद्यपवादोऽयम् । यथा अचीकरत्; अत्र "लघोर्दीर्घ-" ॥४।१६४॥ इति दीर्घविधिः परत्वे नित्यत्वे च सत्यपि सन्वद्भावं बाधित्वा पूर्वं न प्रवर्त्तते । प्रवृत्तौ त्वचाकरदिति स्यात् । ..
___ प्रकाशकं चास्य "आगुणावन्यादेः" ॥४।१।४८॥ इत्यत्र न्यादिवर्जनम् । तथाहि । वनीवच्यते, नरिनर्ति इत्यादावात्वाभावार्थं तावन्यादिवर्जनं कृतं, आत्वाभावश्चान्यथाऽपि सेत्स्यत्येव; न्यागमादेरात्वापवादत्वात् । परमेतन्यायान्न्यागमादय आत्वं बाधितुं नालं भविष्यन्ति । तथाच न्यागमादीनामात्वस्य च भवने वानीवच्यते, नारिनीत्याद्यनिष्टरूपाणि भविष्यन्तीत्याशङ्कयैव न्यादिवर्जनं चक्रे ।
अनिश्चयता त्वस्य न प्रतिभासते ॥ २४ ॥ कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चाद् वृद्धिस्तद्बाध्योऽट् च ॥ २५ ॥
__वृद्धिरिति सामान्योक्तेऽप्यत्राडागमबाधिका "स्वरादेस्तासु" ॥४।४।३१॥ इति विहितैव ग्राह्या । अन्यथाऽटस्तया बाध्यस्तद्बाध्य इति विशेषणानुपपत्तेः । बलवन्नित्यमनित्यात्, अन्तरङ्गं बहिरङ्गाद् इत्याद्यपवादोऽयं न्यायः ।
तत्र वृद्धिर्यथा | ऋक् गतौ; ह्य० अन्; ऐयरुः । अधिपूर्व इंङ्क् अध्ययने; ह्य० अन्त; अध्यैयत । अत्र "धातोरिवर्ण-" ॥२॥१५०॥ इति इयादेशे कृते, अकृतेऽपि च प्राप्नोतीति कृताकृतप्रसङ्गित्वेन नित्याऽपि वृद्धिरियादेशं कृत्वैव क्रियते । पूर्वं वृद्धौ हि आयरुरध्यायतेति स्यात् ।
अत्रांशे प्रत्यायकं त्वस्य; इंण्क् गतौ, अधिपूर्व इंक् स्मरणे, असक् भुवि,
- ६८