________________
२/२६]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्ति: ।
इत्येषां ह्य० अनि परे क्रमेण आयन्, अध्यायन्, आसन् इत्यादिरूपेषु यत्वाल्लुग्भ्यां पूर्वमेव, परत्वात् “स्वरादेस्तासु " ||४| ४ | ३१ ॥ इति वृद्धौ सिध्यत्स्वप्येतद्रूपसिद्धयर्थं " एत्यस्तेर्वृद्धिः" ॥४॥४॥३०॥ इति वृद्धिसूत्रकरणम् । तद्धि एतन्न्यायांशाभावे "स्वरादेस्तासु" ||४|४|३१॥ इत्यनेनैव वृद्धिसिद्धेर्व्यर्थमेव स्यात् । एतन्न्यायांशसद्भावे तु इंण्क्इंकोः क्रमेण "हिणोरष्विति - " ||४ | ३ | १५ ॥ इति " इको वा " ||४ | ३ | १६ ॥ इत्याभ्यां यत्वस्य., अस्तेः ‘“श्नास्त्योर्लुक्” ||४|२|९० ॥ इत्यल्लुक एव च प्राप्तेस्तत्करणादनु च स्वरादित्वाभावात् ं ‘“स्वरादेस्तासु” ||४ | ४ | ३१ ॥ इति वृद्ध्यभवने आयन्नित्यादि न सिध्येदित्य यत्वाल्लुकोर्बाधनार्थं पुनः "एत्यस्तेः ||४|४|३०|| इति वृद्धिसूत्रविधानं सार्थकम् । अत्रांशे अनियतश्चायम् । तेन सम्पूर्व ऋ प्रापणे, ऋक् गतौ वा, अस्मादद्यतन्यां "समो गमृच्छि- " || ३ | ३|८४ ॥ इत्यात्मनेपदे, समार्ष्टत्यादौ "धुड्हुस्वात्"||४|३|७० ॥ इति प्राप्तात् सिज्लोपात्प्रागेव नित्यत्वाद् वृद्धिः । पश्चात्तु धुड्हस्वाभावान्न सिज्लोपः ।
1
-
11
अड् यथा । अचीकरदित्यादौ प्रागुक्तहेतुना नित्योऽप्यल्पनिमित्तत्वादन्तरङ्गोऽपि चाडागमो "लघोर्दीर्घ- " ॥४। १ ६४ ॥ इति दीर्घं कृत्वैव क्रियते; पूर्वमटि हि स्वरादित्वा - द्दीर्घो न स्यात् । अस्मिन्नंशे त्वस्य प्रत्यायकं " अड्धातोः - " ॥ ४४ ॥ २९ ॥ इति सूत्रे अन्वितिपदानुपन्यासस्तथाहि । यदि नित्यत्वादिहेतुना प्रथममट् करिष्यते, तदा धातो: स्वरादित्वभवनेन "लघोर्दीर्घ- " ॥४। १ । ६४ ॥ इत्यस्याप्रवृत्त्या अचीकरदित्यादि न सेत्स्यतीत्यतः सर्वकार्येभ्यः पश्चादड्भवनार्थं " अड्धातो:-" ॥४।४।२९ ॥ इति सूत्रे अन्विति पदं न्यस्यते तदा वरमितिजानताऽप्याचार्येण यत्तत्रान्विति पदं नोपन्यस्तं, तदन्विति पदोपन्यासं विनाऽप्येनेंन न्यायांशेन सर्वकार्येभ्यः पश्चादेवाड् भविष्यतीत्याशयैव ।
-
अत्राप्यंशे ऽनियतोऽयम् । "उपसर्गात्सुग्सुव- ||२| ३ | ३९॥ इति सूत्रे अट्यपीत्युक्तेस्तथाहि । अभ्यषुणोदित्यादावड्व्यवधानेऽपि षत्वार्थं तावदट्यपीत्युक्तम् । यदि चायं न्यायांशो नियतः स्यात्तदा षत्वस्य प्रथममेव भवनात्पश्चादड्भवने तद्वयवधानेन न किञ्चिद्विनश्यतीत्यतोऽयपीति न वक्तव्यं स्यात् । यत्तूक्तं तदस्य न्यायांशस्यानियतत्वादेव
"
૬૯
॥ २५ ॥
पूर्व पूर्वोत्तरपदयोः कार्यं कार्यं पश्चात्सन्धिकार्यम् ॥ २६ ॥
अन्तरङ्गं बहिरङ्गाद् इत्याद्यपवादोऽयम् । तत्र पूर्वपदकार्यं यथा । अग्निश्चेन्द्रश्च अग्नेन्द्रौ; अत्र पूर्वपदस्याग्नेरितो " वेदसहश्रुतावायुदेवतानाम्" ॥३॥२॥४१॥ इत्यात्वमेव द्वन्द्वसमासापेक्षत्वाद्बहिरङ्गमपि प्रथमं क्रियते, न तु तदनपेक्षत्वादन्तरङ्गमपि "समा