________________
न्यायसङ्ग्रहस्य -
[न्या. सू. २/२६ - नानां तेन-" ॥१२॥१॥ इति दीर्घत्वरूपसन्धिकार्यम् । यदि त्वन्तरङ्गत्वात्प्रथमं तत् क्रियते तदा पूर्वोत्तरपदावयवजस्य इकारस्य उभयस्थाननिष्पन्नोऽन्यतव्यपदेशभाग् इति न्यायाद्यदि अग्नी इत्येवंरूपपूर्वपदान्तत्वं व्यपदिश्यते, तदा तस्य "वेदसहश्रुता-" ॥३॥२॥४१॥ इत्यात्वे, अग्नान्द्राविति । यदि तूत्तरपदादित्वं व्यपदिश्यते, तदा अग्न् इत्येवंरूपपूर्वपदान्तस्य नस्य आत्वे अगेन्द्रावित्युभयथाऽप्यनिष्ट रूपे स्याताम् । ततश्च आत्वरूपं पूर्वपदकार्यं कृत्वैव यथाप्राप्तं सन्धिकार्यं क्रियते । किंचात्र प्राप्तम्; "अवर्णस्येवर्णादिना-" ॥१॥२६॥ इत्येत्त्वमिति ।
___अस्य उपपादकं तु “य्वः पदान्तात्प्रागैदौत्" ॥७॥४५॥ इति सूत्रे वृद्धिप्राप्तौ सत्यामित्यधिकारानुवर्त्तनम् । तथाहि । अस्य सूत्रस्य तावदयमर्थः । क्ङिति तद्धितप्रत्यये परे इवर्णोवर्णयोर्वृद्धिप्राप्तौ सत्यां तयोरेव स्थाने यौ यकारवकारौ ताभ्यां प्राग् यथासंख्यमैदौतो स्याताम् । यथा व्याकरणं वेत्त्यधीते वा “तद्वेत्त्यधीते" ॥६।२।११७॥ इत्यनेनाणि, वैयाकरणः; स्वश्वस्यायं "तस्येदम्" ॥६।३।१६०॥ इत्यणि, सौवश्व इति । यदि चायं न्यायांशो न स्यात्तदा व्याकरणस्वश्वशब्दयोर्निष्पादनकाल एव यत्ववत्वभवनादिवर्णोवर्णयोः कथं वृद्धिप्राप्तिः स्यात्तदभावे च कथमेतत्सूत्रेण ऐदौतौ स्याताम् । परमनेन न्यायांशेन वि आकरण अण्; सु अश्व अण् इति स्थिते वि सु शब्दयोरणि, वृद्धिरूपं पूर्वपदकार्यमेव प्रथमं प्राप्स्यति न तु यत्ववत्वरूपं सन्धिकार्यमिति संभाव्य वृद्धिप्राप्तौ सत्यामित्यधिकारः सूरिणाऽनुवर्त्तयांचक्रे । तत्प्राप्तौ च सत्यां "य्वः पदान्तात्-" ॥७॥४५॥ इति सूत्रकरणसामर्थ्याद् वृद्धि बाधित्वा यत्ववत्वे एव स्यातां, तत ऐदौतौ चेति । .
अनैयत्यं त्वत्रांशे न दृश्यते ॥१॥
उत्तरपदकार्यं यथा । परमश्चासावयं च परमायम्; अत्रोत्तरपदस्येदमो "अयमियं पुंस्त्रियोः सौ" ॥२॥१॥३८॥ इत्ययमादेश एव स्यादिपुंल्लिङ्गापेक्षत्वाबहिरङ्गोऽपि प्रथम क्रियते, न तु तदनपेक्षत्वेनान्तरङ्गत्वात् "अवर्णस्येवर्णादिना-" ॥१॥२६॥ इत्येत्त्वरूपं सन्धि-कार्यम् । यदि त्वन्तरङ्गत्वात् पूर्वं तक्रियते तदा उभयस्थाननिष्पन्न इतिन्यायादेकारस्येदम्शब्दसम्बन्धितायां एकदेशविकृतस्यानन्यत्वात् एदम् इत्यस्यायमोदशे परमयमिति स्यात् । एतः पूर्वपदसंबन्धितायां तु एतः स्थितौ दम् इत्यस्यैवाऽवयवे समुदायोपचारेण इदम्पत्वव्यपेदशादयमादेशे परमेऽयमिति । द्वेधाऽपि चानिष्टापत्तिः । ततश्चायमादेशरूपमुत्तरपदकार्यं कृत्वैव यथाप्राप्तं सन्धिकार्यं क्रियते । किंचात्र प्राप्तम्; "समानानां तेन-" ॥१॥२१॥ इति दीर्घत्वमिति ।
अत्रांशे उपपादकं त्वग्नेन्द्रौ देवते अस्येति "देवता" ॥६।२।१०१॥ इत्यणि, आग्नेन्द्रं सूक्तमित्यत्र प्रथमं पूर्वपदकार्यं कार्यमित्यस्यार्थस्यानेन न्यायेन स्थापितत्वात्