________________
- २/२७]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । “वेदसहश्रुता-'' ॥३।२।४१॥ इत्यनेनाग्नेरित आत्वकरणादनु अणि परे "देवतानामात्वादौ" ७।४।२८॥ इत्युभयपदवृद्धौ प्राप्तायामिन्द्रशब्दरूपस्योत्तरपदस्य "आतो नेन्द्रवरुणस्य" ॥७।४।२९॥ इत्यनेन वृद्धिनिषेधः; एतन्यायाभावे हि स व्यर्थ एव स्यात् । तथाहि । इन्द्रशब्दस्य तावद् द्वौ स्वरौ; तत्राद्यः सन्धिना ह्रियते; एतन्न्यायाभावेऽन्तरङ्गत्वात्प्रथमं "अवर्णस्येवर्णादिना-" ॥१।२६॥ इत्येत्त्वभवनात् । अपरश्चाणि परे परत्वात् “अवर्णेवर्णस्य ॥७।४।६८॥ इति लुका हियते । तत इन्द्रशब्दस्य स्वराभावाद् वृद्धिप्राप्तेरेवाभावाद्वयर्थस्तनिषेधः स्यात् । एवं सति यत् स कृतस्तज्ज्ञापयति पूर्वमुत्तरपदकार्ये कृते पश्चात्सन्धिकार्य कार्यम् । तथाच इन्द्रस्याद्यस्वरसद्भावात्सार्थको वृद्धिनिषेध इति ।
अत्रांशे चास्य अनैयत्यात् परम इर्यस्य तस्य परमेः । अत्र इकारस्य "ङित्यदिति" ॥१।४।२३॥ इत्येत्वरूपमुत्तरपदकार्यं प्रथमं न । तथा कृते हि परमैरित्यनिष्टं स्यात् ॥ २६ ॥
संज्ञा न संज्ञान्तरबाधिका ॥ २७ ॥ यथा प्रस्थ इत्यत्र प्रस्य गत्युपसर्गसंज्ञयोः सद्भावाद् "गतिक्क न्य :-" ॥३।१।४२।। इति तत्पुरुषः, "उपसर्गादातो डोऽश्यः" ॥५।१।४६॥ इति डश्च युगपदभूताम् । - प्रभासकं त्वस्य प्रादीनां "धातोः पूजार्थ-'" ॥३।१।१॥ इत्युपसर्गसंज्ञाकरणम् । यदि हि "ऊर्याद्यनुकरण-" ॥३।१।२॥ इत्यनन्तरसूत्रक्रियमाणया गतिसंज्ञयोपसर्गसंज्ञा बाध्यमानास्यात्तदा निष्फलत्वादुपसर्गसंज्ञा कुर्यादेव न । यत्तु सा कृता तदेतन्यायात्तदबा
धसंभावनयैव ।
.. अनिर्णयश्चायम् । “स्पृहेाप्यं वा" ॥२।२।२६॥ इत्यत्र वा-ग्रहणात् तथाहि । यदि तावदयमैकान्तिकः स्यात्तदा कर्मसंप्रदानसंज्ञयोर्बाध्यबाधकभावाभावादुभयोरपि तयोः प्रवृत्तेर्विकल्पाकरणेऽपि विभक्तिद्वयेन चैत्रं चैत्राय वा स्पृहयतीति द्वैरूप्यं सिध्यत्येवेति किमर्थं विकल्पः क्रियते । तथापि यद्विकल्पः कृतस्तदेतन्यायस्यानिर्णयत्वेन संप्रदानसंज्ञया कर्मसंज्ञाया बाधसंभावनयैव ॥ . प्रतिकार्यं संज्ञा भिद्यन्ते इत्यपि न्यायोऽस्ति । अस्य चेत्थमवतारः । "करणं च" ॥२।२।१९॥ इति सूत्रेण दिवः करणस्य युगपत्कर्मकरणसंज्ञयोर्विधानादक्षाना दिव्यतीति द्वैरूप्यं सिद्धम् । तथा अक्षैर्देवयते मैत्रश्चैत्रेणेत्यत्राक्षशब्दस्य करणत्वात् तृतीया भवति; कर्मत्वाच्च “गतिबोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदिह्वाशब्दायक्रन्दाम्" ॥२॥२५॥ इति सूत्रेण प्राप्तं नित्याकर्मकलक्षणमणिकर्तुः कर्मत्वं न स्यात् । तथा अक्षशब्दस्य कर्मत्वादेव देवयते: “अणिगि प्राणिकर्तृकानाप्याण्णिगः" ॥३।३।१०७॥ इत्यनेन
= ७१