________________
न्यायसङ्ग्रहस्य -
[न्या. सू. २/२७ - प्राप्तमकर्मकलक्षणं परस्मैपदं न स्यात् ॥
अत्राह परः । नन्वक्षैर्देवयते मैत्रश्चैत्रेणेत्यादौ संज्ञाद्वययौगपद्यं चरितार्थम्। ततोऽक्षानक्षैर्वा दीव्यतीत्यादौ सत्यपि संज्ञाद्वये स्पर्दो परत्वात् करणत्वहेतुका तृतीयैव भवितुमर्हति न तु द्वितीया । अत्रोत्तरम् । सत्यमेतत् । परं प्रतिकार्यं संज्ञा भिद्यन्ते इति न्यायो यदा प्रयुज्यते तदा द्वितीयाऽपि स्यादेव । तथाहि । अस्य न्यायस्यार्थस्तावदयम् । कार्य कार्य प्रति संज्ञाऽभिधायकानि सूत्राणि भिद्यन्ते । अयं भावः । यद्यपि "करणं च" ॥२।२।१९॥ इति सूत्रे युगपत्संज्ञाद्वयमस्ति, परमक्षानक्षैर्वा दीव्यतीति प्रयोगद्वयं यद् दृश्यते तत्सिद्धयर्थं प्रतिकार्य संज्ञा भिद्यन्ते इतिन्यायेन "करणं च''॥२।२।१९॥ इति सूत्रमावृत्त्या द्विधा व्याख्यायते । यथा दिवः करणं कर्म स्यादिति । तथा दिवः करणं करणं स्यादिति । इयानेव चार्थश्चकारेण सूच्यते; अव्ययानामनेकार्थत्वात् । तत्राद्यव्याख्यान इदं सूत्रं कर्मसंज्ञाया एव विधायकं न तु करणसंज्ञाया इति कल्प्यते । एवं च सिद्धं निर्बाधमक्षान् दिव्यतीति । यतः स्पर्द्ध सति परत्वं चिन्त्यते; आद्यव्याख्यापक्षे च करणसंज्ञाया विधानस्यैवाभावेन तृतीयाप्राप्तेरप्यभावात्केन सह स्पर्द्ध इति । द्वितीयव्याख्या त्वक्षैर्दीव्यतीति प्रयोगस्य तवाप्यभिमतत्वेन निर्विगानैव । एतच्चैवं व्याख्याद्वयमक्षानक्षैर्वा दीव्यतीति प्रयोगद्वयसिद्धयर्थमेव कृतम् ।
ननु क्रियतां व्याख्याद्वयम्; आरोप्यतां च तद्बलादेकस्यापि सूत्रस्य सूत्रद्वयरूपत्वं; परं तस्मिन्नेव सूत्रद्वये विहितयोः कर्मकरणसंज्ञयोर्यः स्पर्द्धः स कथं निवर्त्तते; तदनिवृतौ च पूर्वेण "करणं च" ॥२।२।१९॥ इति सूत्रेण विहितायाः कर्मसंज्ञायाः, परेण "करणं च" ॥२॥२॥१९॥ इति सूत्रेण विहितया करणसंज्ञया यो बाधः प्राप्नोति स केन वार्यते । उच्यते । यदा "करणं च" ॥२।२।१९॥ इत्यस्य सूत्रद्वयरूपत्वमारोपितं नासीत्तदा स्पर्द्ध आसीद्यदा तु तस्य सूत्रद्वयरूपत्वमारोपितं तदाऽनयोः संज्ञयोः स्वस्वसूत्रनिष्ठत्वात् स्पर्दो निवर्त्तते । एकस्यापि गृहस्यान्तरा भित्तिप्रक्षेपादिना गृहद्वयरूपकरणे तन्निवासिसपत्न्योरिव । अन्यथा हि सूत्रद्वयरूपत्वारोपयत्नस्य व्यर्थतैवापद्येत । एवं च निवृत्ते स्पर्द्ध कः कस्य बाधां कुर्यादिति ।
तदत्रेदं तत्त्वम् | "करणं च" ॥२।२।१९॥ इति सूत्रेण संज्ञाद्वयविधानमक्षैर्देवयते मैत्रश्चैत्रेणेत्यादौ चरितार्थम् । तेनाक्षानक्षैर्वा दीव्यतीत्यादावुक्तयुक्त्या तृतीयैव प्राप्नोति; प्रयोगश्च द्वितीयाया अपि दृश्यते; अतस्तत्समर्थनार्थं प्रतिकार्य संज्ञा भिद्यन्ते इति न्यायबलं गृहीत्वैकस्यापि "करणं च" ॥२।२।१९॥ इति सूत्रस्य भिन्नभिन्नव्याख्याभ्यां सूत्रद्वयरूपत्वमारोप्य तत्प्रथमसूत्रेण द्वितीयाऽप्यत्रानीयत इति । परमनेनापि प्रतिकार्य संज्ञा
७२