________________
- २/२८, २९]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । । । भिन्ते इति न्यायेन पूर्वोक्तयुक्त्या "करणं च" ॥२।२।१९॥ इति सूत्रस्य भिन्नभिन्नव्याख्याभ्यां सूत्रद्वयरूपत्वारोपणसामर्थ्यादुभयोरपि संज्ञयोः स्पर्द्धस्याभावोद्भावनेन कर्मसंज्ञायाः करणसंज्ञयाऽबाधनं व्यवस्थापयता संज्ञा न संज्ञान्तरबाधिका इति न्यायस्यैवार्थो भङ्ग्यन्तरेण समर्थित इति नासौ पृथग् दर्शितः ॥ २७ ॥
सापेक्षमसमर्थम् ॥ २८ ॥ ‘पदान्तरसापेक्षं पदं समासादिपदविधीन् प्राप्तुं नालम् । यथा ऋद्धस्य राज्ञः पुरुषः । अत्र राजशब्दस्य ऋद्धविशेषणसापेक्षत्वात्पुरुषशब्देन सह न समासः ।
अस्य प्रतिभासकं त्वीदृशेषु समासादि निषेद्धं यत्नाकरणम् । “समर्थः पदविधिः" ॥७।४।१२२॥ इति परिभाषायाः प्रपञ्चोऽयम् ।
___ अस्य विसंवादित्वाच्च देवदत्तस्य दासभार्येत्यादौ दासशब्दस्य देवदत्तस्येतिपदसापेक्षत्वेऽपि समासः । देवदत्तस्य यो दासस्तस्य भार्येति पत्रार्थः । न चाग्रेतनन्यायेन देवदत्तपदसापेक्षस्यापि दासशब्दस्यात्र समास इति शङ्कयम् । दासशब्दस्य क्रियया सह सामानाधिकरण्यप्रयोगाभावेनाप्रधानत्वात्तत्र च प्रधानस्यैव सापेक्षत्वे समासाभ्यनुज्ञानात् ॥ २८ ॥
प्रधानस्य तु सापेक्षत्वेऽपि समासः ॥ २९ ॥ यस्य क्रियया सह सामानाधिकरण्येन प्रयोगस्तत्प्रधानम् । यथा राजपुरुषोऽस्ति दर्शनीयः इत्यादौ समासात् प्रागवस्थायां पुरुषशब्दस्य स्वविशेषणदर्शनीयशब्दसापेक्षत्वेऽपि राजशब्देन सह तत्पुरुषः । य एव हि पुरुषत्वस्याधिकरणं स एवास्तीतिक्रियाया अपीति क्रियया सह सामानाधिकरण्यप्रयोगेण पुरुषशब्दस्य प्रधानत्वात् ।
विभासकं त्वस्य पुरुषो व्याघ्रः शूर इत्यादौ पुरुषव्याघ्रशब्दयोः समासाभावार्थं "उपमेयं व्याघ्राद्यैः साम्यानुक्तौ" ॥३।१।१०२॥ इति सूत्रे साम्यानुक्तिग्रहणम् । तथाहि । व्याघ्र इव व्याघ्रः । तदनु पुरुषश्चासौ व्याघ्रश्च पुरुषव्याघ्र इत्यादौ "उपमेयं व्याघ्राद्यैः साम्यानुक्तौ" ॥३।१।१०२॥ इत्यनेन पुरुषव्याघ्रशब्दयोः कर्मधारयसमास इष्यते । यदा त्वत्रैव व्याघ्रत्वोपचारकारणं शूरत्वमुपन्यस्यते । कथम् । शूरः पुरुषः; अत एव शूरत्वेन व्याघ्र इव व्याघ्र इति । तदा पुरुषो व्याघ्रः शूर इत्यत्र पुरुषव्याघ्रशब्दयोः कर्मधारयसमासो नेष्यते, ततस्तनिवारणार्थं सूरिणा समाससूत्रे साम्यानुक्तिग्रहणं कृतम् । व्याख्यातं चैवम् । यदि साम्यहेतुः पदं नोपन्यस्यते तदा कर्मधारयसमासः स्यात्; इह तु साम्यहेतुः शूरपदं प्रयुक्तमित्यतो न समास इति । यदि च पुरुषशब्दस्य स्वविशेषणशूरशब्दसापेक्षतयाऽ
93