________________
न्यायसङ्ग्रहस्य
[ न्या. सू. २/३०, ३१ समर्थत्वात्पूर्वन्यायेनैवात्र समासाभावः सिध्यन् स्यात्तदा किमिति तदर्थं साम्यानुक्तिग्रहणं क्रियते । यत्तु कृतं तत्पूर्वन्यायबाधकस्यैतन्यायस्य सद्भावादेतन्यायेन शूरशब्दसापेक्षस्यापि पुरुषशब्दस्य प्रधानत्वाद्वयाघ्रशब्देन सह समासो ऽनिष्टोऽपि भविष्यत्येवेत्याशङ्कयैव ।
अस्य विसंवादिता तु न वेद्यते । पूर्वन्यायस्यापवादश्चायमुत्तरश्च । अपि च । किं हि वचनान्न भवतीति न्यायस्य प्रपञ्चोऽयमुत्तरश्च ॥ २९ ॥
तद्धितीयो भावप्रत्ययः सापेक्षादपि ॥ ३० ॥
यथा काकस्य कृष्णस्य भावः काकस्य कार्ण्यमित्यादौ कृष्णशब्दात्काकशब्दसापेक्षादपि ‘“पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च ॥ ७१ ॥ ६० ॥ इति ट्यण् सिद्धः । समर्थकं त्वस्य " पुरुषहृदयादसमासे ॥७।१।७० ॥ इति सूत्रे असमासे इति । अस्य सूत्रस्यार्थादि तावदेवम् । असमासविषयात्पुरुषशब्दाद् भावे कर्मणि वा वाच्येऽण् त्वतौ च स्युः । यथा पुरुषस्य भावः कर्म वा पौरुषम्, पुरुषत्वं, पुरुषता । असमास इति किम् । परमस्य पुरुषस्य भावः परमपुरुषत्वमित्यादौ " भावे त्वतल्" ॥७।१।५५॥ इति त्व एव स्यात्परमपौरुषमित्यण् तु न स्यादित्येतदर्थमसमासे इत्युक्तम् । यदि चायं न्यायो न स्यात्तदा समासविषयस्य पुरुषशब्दस्य परमशब्दसापेक्षत्वेनासमर्थत्वादेवात्राण् न भविष्यति सापेक्षमसमर्थमिति न्यायादिति किमित्यणभावार्थमसमासे इति कुर्यात् । यत्तु कृतं तत् सापेक्षम् ० इति न्यायबाधकैतन्यायसद्भावादेव ।
अग्राह्यता पुनरस्य न दृश्यते ॥ ३० ॥ गतिकारकङस्युक्तानां विभक्त्यन्तानामेव कृदन्तैर्विभक्त्युत्पत्तेः प्रागेव
"
समासः ॥ ३१ ॥
यद्यपि “नाम नाम्नैकार्थ्ये समासो बहुलम् ||३ | १ | १८ ॥ इत्यनेन नाम्नो नाम्ना सह समास उक्तस्तथाऽप्यैकार्थ्ये इत्यनेन समासान्तर्वर्त्तिविभक्तिलुप्करणादेवं ज्ञापितं यदुत विभक्त्यन्तानामेव समास इति । ततश्चोभयोरपि पदयोर्विभक्त्यन्तत्वे प्राप्ते कृदन्तस्योत्तरपदस्याविभक्त्यन्तत्वनियमार्थोऽयं न्याय: ।
तत्र गतेर्यथा । विकिरति पक्षाविति विष्किरी इत्यादौ पक्ष्यर्थमात्रापेक्षत्वेनान्तरङ्गत्वात्प्रथममेव ‘“वौ विष्किरो वा " ॥ ४|४|९६ ॥ इति स्सटि विस्किर इति स्थिते " ऊर्याद्यनुकरण" ॥३|१| २ ॥ इति कृतगतिसंज्ञस्य वे: “नाम्युपान्त्यप्रीकृगृज्ञः कः ।।५।१।५४।। इति कप्रत्ययान्तेन स्किरेत्यनेन सह "गतिक्वन्यः-" ॥३॥१॥४२॥ - इति तत्पुरुषस्ततो " असोङसिवूसहस्सटाम्" ॥२|३|४८ ॥ इत्यनेन स्सटः सस्य षत्वे च विष्किरः पक्षी,
"1
७४