________________
- २/३१]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । ततः स्त्रीत्वविवक्षायामदन्तत्वात् "जातेरयान्तनित्यस्त्रीशूद्रात्" ॥२।४५४॥ इति ङीः सिद्धः । यदि त्वेतन्यायानपेक्षणाद्विभक्त्यन्तेन स्किरेत्यनेन समास इष्यते तदा कर्मादिशक्तिसंख्याद्यपेक्षत्वेन बहिरङ्गाया विभक्तेरुत्पत्तेः प्रागेव स्त्रीत्वमात्रापेक्षत्वेनान्तरङ्गस्य आपः प्राप्तावदन्तत्वाभावात् ङीन स्यात् ॥१॥
___ कारकस्य यथा । चर्मणा क्रीयते स्म चर्मक्रीती इत्यादौ चर्मन् टा क्रीत इति स्थिते चर्मेत्यस्य करणकारकस्य क्रीतेत्यनेन सह "कारकं कृता" ॥३।१।६८॥ इति तत्पुरुषः । ततः स्त्रीत्वविवक्षायां "क्रीतात्करणादेः" ॥२।४।४४॥ इत्यनेन क्रीतशब्दाददन्ताद् ङीः सिद्धः । यदि तु विभक्त्यन्तेन क्रीत इत्यनेन समास इष्यते तदा प्राग्वदतरङ्गत्वाद्विभक्त्युत्पत्तेः प्रागेवापः प्राप्तावदन्तत्वाभावात् ङीन स्यात् । पूर्वपदस्य तु विभक्त्यन्तत्वनियमाच्चर्मक्रीतीत्यत्र पदत्वान्नस्य लोपः ॥२॥
• कृत्प्रत्ययविधायिसूत्रे ङसिनेत्येकदेशस्य समुदायोपलक्षणत्वेन संपूर्णपञ्चमीलाभात् "विशेषणमन्तः" ॥७।४।११३॥ इति परिभाषयाऽन्तशब्दलाभाच्च पञ्चम्यन्तेन पदेनोक्तं डस्युक्तम् । तत्र डसिनैवोक्तस्य यथा । कच्छं पिबतीति कच्छपी इत्यादौ कच्छ अम् प इति स्थिते, "नाम्नो गमः खड्डौ च विहायसस्तु विहः" ॥५।१।१३१॥ इत्यतोऽधिकृतान्नाम्नः परस्य स्थादिधातोर्विहितो यः "स्थापास्नात्रः कः" ॥५।१।१४२॥ इति कप्रत्ययस्तदन्तेन पेत्यनेन सह कच्छशब्दस्य "ङस्युक्तं कृता" ॥३॥१॥४९॥ इति तत्पुरुषः । कच्छशब्दस्य नाम्न इति ङसिनोक्तत्वात् । ततः स्त्रीत्वविवक्षायां "जातेरयान्त-" ॥२१४५४॥ इत्यनेन कच्छपशब्दाददन्ताद् ङीः । यदि तु विभक्त्यन्तेन पेत्यनेन समासः स्यात्तदा प्राग्वदापः प्राप्तावदन्तत्वाभावाद् ङीन स्यात् । पञ्चमीभ्यसोक्तमप्युक्तयुक्त्या ङस्युक्तमेव । तस्य यथा । विषं धरतीति विषधरी इत्यादौ विष अम् धर इति स्थिते विषशब्दस्य "आयुधादिभ्यो धृगोऽदण्डादेः" ॥५।१।९४॥ इति सूत्रे आयुधादिभ्य इति भ्यसोक्तस्यापि ङस्युक्तत्वादच्प्रत्ययान्तेन धरेत्यनेन सह "ङस्युक्तं कृता" ॥३।१।४९॥ इति तत्पुरुषः । ततः स्त्रीत्वविवक्षायां "जातेरयान्त-" ॥२।४५४॥ इति ङीः । यदि तु विभक्त्यन्तेन धरेत्यनेन समासः स्यात्तदा प्राग्वददन्तत्वाभावाद् डीन स्यात् ॥ ३ ॥
कीर्तकं चास्य कारकांशे "क्रितात्करणादेः" ॥२।४।४४॥ इत्यनेनादन्तात् क्रीताद् डीविधिस्तथाहि । अत्र तावत्करणादेः क्रीतादित्युक्तम्; करणस्याऽद्यवयवत्वं च समासं विना न स्यात् । एतन्यायाभावे च यदि विभक्त्यन्तेन क्रीतेत्यनेन समासः क्रियते, तदा क्रीतस्यादन्तत्वं न संभवति; अन्तरङ्गत्वाद्विभक्त्युत्पत्तेः प्रागेवापः प्राप्तेः । एवं च सति यददन्तादित्युक्तं तज्ज्ञापयति, कारकाणां कृदन्तैरविभक्त्यन्तैरेव समास इति ।
गतिङस्युक्तांशयोस्त्वस्य कीर्तकं विष्किरी, कच्छपीत्यादौ ङीप्रतिबन्धकाब्
= ७५
=