________________
न्यायसङ्ग्रहस्य -
[न्या. सू. २/३२ - निषेधयत्नाकरणम् । तथाहि । विष्किरीत्यादौ तावद् ङीः सूरेरिष्टः, स च तदैव स्याद्यदि आपा शब्दस्याऽदन्तत्वं न व्याहन्यते । यदि चोत्तरपदस्य विभक्त्यन्तत्वमिष्यते तदा विभक्ति बाधित्वा आपो भवनाददन्तत्वं व्याहन्यत एव । एवं सत्यपि यदापं निषेधुं यत्नो न कृतस्तदेतन्यायेनोत्तरपदस्याविभक्त्यन्तत्वनियम, तत एव विभक्त्यानयनावसरप्रसक्तस्यापो निषेधसिद्धिं, तत एव विष्किरकच्छपादिशब्दानामदन्तत्वव्याघाताभवनसिद्धिं च संभाव्यैवेति ।
अदृढता त्वस्य न संभवति ॥ ३१ ॥ समासतद्धितानां वृत्तिर्विकल्पेन वृत्तिविषये च नित्यैवापवादवृत्तिः ॥ ३२ ॥
परार्थाभिधानं वृत्तिः । अयमर्थः । वृत्तिस्तावत् त्रेधा । समासवृतिस्तद्धितान्तवृत्तिर्नामधातुवृत्तिश्च । यथा राजपुरुषः; औपगवः; पुत्रकाम्यतीत्यादि । तत्र समासवृत्तौ समस्यमानपदानि, शेषवृत्त्योस्तु प्रकृतिप्रत्ययौ संभूय समुदायार्थं सह ब्रुवन्तीतिरीत्या परस्यान्यस्य कोऽर्थः स्वार्थातिरिक्तस्य समुदायार्थस्य यदभिधानं सा वृत्तिः । तत्र वाक्येनाभिधाने प्राप्ते वृत्तिरारभ्यमाणा येन नाप्राप्ते० इति न्यायाद्वाक्यस्य बाधिका प्राप्नोतीति विकल्पेन तस्यानुज्ञाऽनेन न्यायेनोच्यते । तथा वृत्तिपक्ष उत्सर्गापवादरूपयोवृत्त्योः संभवे उत्सर्गस्य नित्यमेव बाधश्चानेन न्यायेनोच्यते ।
तत्र समासवृत्तिर्यथा | कायस्य पूर्वोऽशः पूर्वकायः; अत्र "पूर्वापराधरो-" ॥३१॥५२॥ इत्यनेनांशितत्पुरुषो वाक्यं च; न तु “षष्ठययत्नाच्छेषे' ॥३।१७६॥ इत्यौत्सर्गिकः कायपूर्व इति षष्ठीसमासः ।
अत्र चायेऽशे समासानां वृत्तिर्विकल्पेनेति रूपे उद्भावकं "नित्यं प्रतिनाऽल्पे" ॥३॥१॥३७॥ इत्यत्र नित्यमिति वचः । तद्धि अनेन न्यायेन प्राप्तस्य विकल्पस्य निषेधार्थम् । तेन शाकस्याल्पत्वं शाकप्रति; अत्र समास एव स्यान्न तु वाक्यम् । अत एव प्रतिर्वाक्य उक्तो न । द्वितीयांशे तु वृत्तिविषये नित्यैवापवादवृत्तिरिति रूपे “पारेमध्येऽग्रेऽन्तः षष्ठ्या वा" ॥३॥१॥३०॥ इत्यत्र वाग्रहणमुद्भावकम् । तद्धि पक्ष औत्सर्गिकषष्ठीसमासानुज्ञार्थम् । तेन च पारेगङ्गमिति, "पारेमध्येऽग्रेऽन्तः-"॥३॥१॥३०॥ इत्यनेनाव्ययीभावो, गङ्गापारमित्यत्र त्वेतन्यायांशनिषिद्धोऽपि वाग्रहणबलादौत्सर्गिकः “षष्ठ्ययत्नात्-" ॥३१७६॥ इति षष्ठीतत्पुरुषो, गङ्गायाः पारमित्येतत्त्वाद्यन्यायांशबलाद्वाक्यमिति त्रैरूप्यं सिद्धम् । यदि चायं न्यायांशो न स्यात्तदा क्रमेणोत्सर्गापवादयोः प्रवृत्तेः पक्ष औत्सर्गिकः षष्ठीसमासोऽपि सिद्ध एवेति किमिति तदनुज्ञार्थं वाग्रहणं कुर्यात् । यत्तु कृतं तदेतस्य न्यायांशस्य शङ्कयैव ॥१॥
तद्धितवृत्तिर्यथा । गर्गस्यापत्यं वृद्धं गार्ग्यः; अत्र "गर्गादे:-".॥६।१।४२॥ इति यञ्, वाक्यं च । नत्वौत्सर्गिको गार्गिरिति "अत इञ्" ॥६।१।३१॥ इति इञ् ।
७६