________________
- २/३३]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । अत्र चाद्यांशे तद्धितानां वृत्तिर्विकल्पेनेति रूपे उद्द्योतकं "नित्यं अजिनोऽण्" ॥७॥३॥५८॥ इत्यत्र नित्यग्रहणम् । तद्धयनेन प्राप्तस्य विकल्पस्य निषेधार्थम् । तेन व्यतिहारेण व्यवक्रोशनं स्त्रीलिङ्गविवक्षायां "व्यतिहारेऽनीहादिभ्यो ञः" ॥५॥३॥११६॥ इति ने तदनु स्वार्थे "नित्यं अजिनोऽण" ॥७।३५८॥ इत्यणि ङ्यां च व्यावक्रोशी । अत्र केवलआन्तो व्यक्रोशेति प्रयोगो न स्यात् किन्त्वणसहित एव कोऽर्थः यथा प्रज्ञ एव “प्रज्ञादिभ्योऽण्" ॥७।२।१६५॥ इत्यणि, प्राज्ञ इत्यादौ स्वार्थिकाणादीनां वाक्यमप्यस्ति । तथाऽत्र व्यवक्रोशेति प्रयोगाभवनाद्वयवक्रोशैव व्याक्रोशी इति वाक्यं न स्यात् । द्वितीयांशे तु वृत्तिविषये नित्यैवापवादवृत्तिरिति रूपे "वोदश्वितः" ॥६।२।१४४॥ इत्यत्र वाग्रहणमस्य उद्द्योतकम् । तद्धि पक्ष औत्सर्गिकाणर्थम् । तेन च औदश्वित्कमित्यत्र "वोदश्वितः" ॥६।२।१४४॥ इतीकण् । औदश्वितमिति चैतन्न्यायांशनिषिद्धोऽपि वाग्रहणबलादौत्सर्गिकः "संस्कृते भक्ष्ये" ॥६।२।१८०॥ इत्यण् । उदश्चिति संस्कृतमित्येतत्त्वाद्यन्यायांशबलाद्वाक्यमिति त्रैरूप्यं सिद्धम् । यदि चायं न्यायांशो न स्यात्तदा क्रमेणोत्सर्गापवादयोः प्रवृत्तेः पक्ष औत्सर्गिकोऽणपि सिद्ध एवेति किमिति तदनुज्ञार्थं वाग्रहणं कुर्यात् । यत्तु कृतं तदेतन्यायांशशङ्कयैव ॥२॥
समासतद्धितवृत्तिव्यवस्थाऽनुवादमात्रपरश्चायं न्यायो न त्वनेन नव्यं किञ्चिद्वयवस्थाप्यते । एतत्साध्यस्य तत्तत्सूत्रैरेव सिद्धेस्तथाहि । “नित्यं प्रतिना-" ॥३॥१॥३७॥ इत्यत्र नित्यग्रहणेन तावदीदृग्वर्जसर्वसमासेषु वाक्यमपि स्यादिति सूचितम् । “पारेमध्ये-" ॥३१॥३०॥ इति सूत्रस्थवाग्रहणेन चेदंशि वर्जयित्वाऽन्यत्र क्वाप्यपवादसमासविषय उत्सर्गसमासो न स्यात् ईदक्षस्थानेषु त्वपवादसमासवदुत्सर्गसमासोऽपि स्यादेवेत्यसूचि । तथा "वाऽऽद्यात्" ॥६।१।११॥ इति सूत्रात्प्रवृत्तेन वाऽधिकारेण तद्धितवृत्तौ सर्वत्र वाक्यं स्यादेवेति ज्ञापितम् । “वोदश्वितः" ॥६।२।१४४॥ इति वाग्रहणेन चेदंशि वर्जयित्वाऽन्यत्र क्वाप्यपवादतद्धितप्रत्ययविषय औत्सर्गिकस्तद्धितप्रत्ययो न स्यात्; ईदक्षस्थानेषु त्वपवादतद्धितप्रत्ययवत् उत्सर्गतद्धितप्रत्ययोऽपि स्यादेवेत्यज्ञापीति । अत एवादाढचमस्य नास्ति । व्याकरणसूत्रसाधितकार्याणामदाढासंभवात् ॥ ३२ ॥
___ एकशब्दस्यासङ्ख्यात्वं वचित् ॥ ३३ ॥
एकशब्दस्य प्रसिद्धिस्तावत्संख्यात्वस्यैवास्तीत्यतस्तत्प्रतिरोधार्थोऽयं न्यायः । यथैकमह इत्यत्रैकशब्दस्य सदपि सङ्ख्यात्वं न गण्यते । ततश्च "अह्न :" ॥७।३।११६॥ इत्यःसमासान्ते, "नोऽपदस्य तद्धिते" ॥७४।६१॥ इत्यन्त्यस्वरादिलोपे, "अहनिर्वृहकलहाः" (लिङ्गानु० पुं० १५।३) इति पुंस्त्वे प्राप्तेऽपि "- अहः सुदिनैकतः" (लिङ्गानु० न० ८।२)
= ७७D
M