________________
न्यायसङ्ग्रहस्य - न्या. सू. २/३४, ३५ - इति विशेषविधिना क्लीबलिङ्गत्वे एकाहमिति सिद्धम् । यदि त्वेकशब्दस्य संख्यात्वं गण्यते, तदा "सर्वांशसंख्याऽव्ययात्" ॥७।३।११८॥ इत्यनेनाटि, अनेनैव चाहादेशे, "अर्द्धसुदर्शनदेवनमह्ना-" (लिङ्गानु० पुं० ११।१) इति पुंस्त्वे च, एकाह्न इत्यनिष्टं रूपं प्रसज्येत ।
प्रवर्तकं चास्य “संख्यातैकपुण्यवर्षादीर्घाच्च रात्रेरत्" ॥७।३।११९॥ इत्यत्र चकारेण "सर्वांशसंख्याऽव्ययात्" ॥७।३।११८॥ इति सूत्रात् संख्यानुवृत्तावप्येकशब्दग्रहणम् । कचिदिति वचनाच्च बहुषु स्थानेष्वेकशब्दस्य संख्यात्वं गण्यत एव । तेन एकधेत्यत्र "सङ्कचाया धा" ॥७।२।१०४॥ इति धाः सिद्धः ।
अनित्यता त्वस्य नास्ति ॥ ३३ ॥ आदशभ्यः सङ्ख्या सङ्ख्येये वर्त्तते न सङ्ख्याने ॥ ३४ ॥ __ अष्टादशसङ्घयाऽवधि तावद्दशन्शब्दप्रयोगः स्यात्तत आदशभ्य इति कोऽर्थो दशन्शब्दस्य प्रयोगावधि अष्टादशसङ्ख्याऽवधीति यावत् । ततश्चाष्टादशसङ्ख्यावधि सङ्ख्या सङ्घ - येयेन सह सामानाधिकरण्येन प्रयोज्येत्यर्थः । यथैको द्वौ त्रयो वा यावदष्टादश घटाः, न तु घटानामिति । आदशभ्य इति किम् । एकोनविंशत्यादिसङ्ख्या तु सङ्ख्येये, सङ्ख्याने च वर्त्तते । यथैकोनविंशतिघंटा, घटानां वा यावन्नवनवतिः; शतं सहस्रं लक्षं कोटि घटा, घटानां वेत्यादि ।
उद्घोषकं त्वस्य "सुज्वाऽर्थे सङ्ख्या सङ्ख्येये सङ्ख्यया बहुव्रीहिः" ॥३।१।१९॥ इत्यत्र सङ्ख्येये वर्तमानया सङ्ख्यया सङ्ख्येयवर्तिनीति व्यक्तिः कथं ज्ञायेत । तदज्ञाने च कथं सङ् ख्यानवर्त्तिसङ् ख्यापरिहारेण संङ् ख्येयवर्त्तिसङ् ख्यया सह समासः क्रियेतेति । एतच्च उद्घोषकमादशभ्य इति पदं व्युदस्य शेषवाक्यापेक्षया योज्यम् । सङ्ख्येये वर्तमानाऽपि काऽपि सङ्ख्याऽस्तीत्येतावत एवार्थस्यानेनोद्धोष्यमाणत्वात् ।
___ अस्य चाप्रतिष्ठत्वात् "आसन्नादुर-" ॥३॥१॥२०॥ इत्यनेन बहुव्रीहौ "प्रमाणीसङ्ख्याड्डः" ॥७।३।१२८॥ इति डे च आसन्नदशा इति कोऽर्थः नवैकादश वा; अत्र आसन्ना दशेति कोऽर्थः दश सङ्ख्या येषामिति वाक्यं सिद्धम् ॥ ३४ ॥
णौ यत्कृतं कार्यं तत्सर्वं स्थानिवद्भवति ॥ ३५ ॥
णाविति निमित्तसप्तमी । यथा स्फुरत् णौ सनि, पुस्फारयिषति; अत्र "चिस्फुरोनवा" ॥४।२।१२॥ इति आत्वस्य णौ निमित्ते सति कृतस्य स्थानिवद्भावात् स्फु इति द्वित्वं
७८