________________
- २/३६]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । सिद्धम् । णावित्यत्र निमित्तसप्तमी किम् । श्वेः सन्परे णौ विषयभूते सत्यन्तरङ्गत्वात् "श्वेर्वा" ॥४।१८९॥ इत्यनेन प्रथमं य्वति तदनु वृद्धावावादेशे च णौ निमित्ते सति कृतयोवृद्ध्यावादेशयोः स्थानिवद्भावात् शु इति द्वित्वे, शुशावयिषति । अत्र वृद्धयावादेशयोः स्थानिवद्भाववद् य्वृतोऽपि स्थानिवद्भावो मा भूत्। तस्य "श्वेर्वा" ॥४।१।८९॥ इत्यनेन सन्परे णौ विषये कृतत्वात् । यदि तु णाविति सामान्येन सप्तमी व्याख्यायते तदाऽत्र यवृतोऽपि स्थानिवद्भवने श्वि इति द्वित्वे शिशावयिषतीत्यनिष्टं रूपं स्यात् ।
प्रपञ्चकं चास्य युक् मिश्रणे, पूग्श् पवने; आभ्यां सनि यियिविषति, पिपविषति इत्यादौ पूर्वस्य उत इत्वार्थं 'ओः पयेऽवणे" इत्येतावतैव सूत्रेण सरत्यपि; जुं गतौ सौत्रो धातुः, यौतिपुनाती तु प्रागुक्तावेव; एभ्यो णौ सनि जिजावयिषति, यियावयिषति, पिपावयिषतीत्यादौ ण्यन्तानामपि जवत्यादीनामुत इत्वार्थं “ओर्जान्तस्थापवर्गेऽवणे" ॥४।१।६०॥ इति बृहत्सूत्रसूत्रणम् । तथाहि । यदि तावदयं न्यायो न स्यात्तदा जिजावयितिइत्यादिष्वन्तरङ्गत्वात्प्रथमं वृद्धयावादेशौ कृत्वा पश्चाद् द्वित्वे कृते "सन्यस्य" ॥४१५९॥ इत्यनेनैव इत्वं सिध्यतीत्यतः किमर्थं "ओर्जान्तस्था-" ॥४।१।६०॥ इति बृहत्सूत्रं क्रियेत । परमेतन्यायेन वृद्ध्यादेः सर्वस्य स्थानिवद्भवनात् "सन्यस्य' ॥४१५९॥ इत्यनेन इत्वासिद्धेरुत इत्वार्थं “ओर्जान्तस्था-'" ॥४।१।६०॥ इत्यादिबृहत्सूत्रमेतन्यायाशङ्कया सूत्रितम् ।
अनैष्ठिकश्शायम । तेन यस्य णिनिमित्तकृतकार्यस्य स्थानिवद्भावश्चिकीर्ण्यते तदाऽऽधारभूतो वर्णो वर्णसमुदायो वा अवर्णवान् यदि स्यात्तदैवायं न्यायः स्फुरेन्नान्यथा । तेन कतणश्चुरादित्वात् णिचि "कतः कीर्तिः" ॥४।४।१२२। इति की देशे, अचिकीर्त्तत्; अत्र की इत्येव द्वित्वं न तु क इति; कीर्त्त इतिवर्णसमुदायस्य ईकारवत्त्वादवर्णवत्त्वाभावेन स्थानिवद्भावाभवनात् । ननु कथमचैतन्न्यायप्राप्तिर्णाविति निमित्तसप्तमी, व्याख्यानात्; कीर्तादेशस्य चानिमित्तमेव विधानात् । सत्यम् । परं येन विना यन्न स्यात्तत्तस्यानिमित्तस्यापि निमित्तमिति न्यायात् णिच्सन्नियोगान्यथाऽनुपपन्नस्य कीर्तादेशस्य णिनिमित्तमेवेति वक्ष्यते । “स्थानीवावर्णविधौ" ॥७।४।१०९॥ इति परिभाषायाः प्रपञ्चोऽयं न्यायः । . इतोऽगे उणादयोऽव्युत्पन्नानि नामानि इति न्यायं यावदेकादश न्यायाः सर्वं वाक्यं सावधारणमिति न्यायस्यानित्यत्वप्रपञ्चभूताः ॥ ३५॥
द्विर्बद्धं सुबद्धं भवति ॥ ३६ ॥ . यदर्थं व्याकरणधातुपाठादौ प्रयत्नद्वयं कृतं तद् द्विर्बद्धं कार्यं सुबद्धमिति कोऽर्थः अव्यभिचारी स्यात् । यथा असूच क्षेपणे; अद्य० दि, आस्थत्; अत्राङो न व्यभिचारः; अस्यते: "शास्त्यसूवक्तिख्यातेरङ्' ॥३।४।६०॥ इति सूत्रे, पुष्यादौ च पाठात् । अन्येषां तु
७८