________________
न्यायसङ्ग्रहस्य -
[न्या. सू. २/३७ - पुष्यादिपठितधातूनां क्वचित्तद्वयभिचारोऽपि । यथा भगवन् ! मा कोपीरिति बालरामायणे । अत्र पुष्यादित्वेऽप्यङ्न ।
__ अस्य चोपदर्शकं दंशेर्यङ्लुपि दंदशीतीत्यत्र नस्य लोपः केनापि सूत्रेणाविहितोऽपि स्यादेवेति ज्ञापनार्थं "गलुपसदचरजपजभदशदहो गयें" ॥३।४।१२॥ इत्यत्र दशेति निर्देशे कृतेऽपि पुनस्तदर्थमेव "जपजभदहदशभञ्जपशः" ॥४।१५२॥ इत्यत्रापि दशेति निर्देशः । तथाहि । इह तावत्सूरिशैवमचिन्ति; ज्ञापकेन सकृज्ज्ञापितो यो विधिः स दशैकादशशब्दस्यादन्तत्ववज्जातु अनित्यतामपि भजेत्; समासान्तागम० इति न्यायात् । यस्तु द्विआप्यते तस्य द्विर्बद्धं सुबद्धमिति न्यायादनित्यताभीर्न स्यादित्यतो द्विरिमं ज्ञापयामीति । यदि चायं न्यायो न स्यात्तदा द्विापितस्यापि विधेरनित्यतामापतन्ती को निषेद्धं क्षमेत । यदि परमेतन्यायबलेनैव द्विर्ज्ञापितविधेर्दाढयं बभूव । एतेन सूरिमते दंदशीतीत्यत्र नस्य लोपः स्यादेव ।
एतन्न्यायस्य अनित्यताश्रयणे तु द्विर्बद्धस्यापि नलोपस्याबद्धत्वात् केषांचिन्मते नकारलोपाभवने दंदशीतीत्यपि स्यात्तदपि च मतं सूरेः सम्मतमेव; "जपजभ-" ॥४।१५२॥ इत्यस्य वृत्तौ साक्षादुक्तत्वात् ॥ ३६ ॥
आत्मनेपदमनित्यम् ॥ ३७ ॥ आत्मनेपदं यथाशिष्टप्रयोगं क्वचित् प्राप्तमपि न स्यात्, क्वचिच्चाप्राप्तमपि स्यादित्यनित्यशब्दार्थः । तत्र प्राप्तमपि न स्यात् यथा । डुलभिष् प्राप्तौ; सम्यक् प्रणम्य न लभन्ति कदाचनापि । क्लीबंअधाष्टर्ये; कुरूद्द्योतं क्लीबद्दिनपतिसुधागौ तमसि मे । क्लिशिंच् उपतापे; परार्थे क्लिश्यतः सतः । षेवृङ् सेवने; स्वाधीने विभवेऽप्यहो नरपतिं सेवन्ति किं मानिनः । भाषि व्यक्तायां वाचि; मिथ्या न भाषामि विशालनेत्रे । तथा तर्जिण् संतर्जने; तर्जयति । भत्सिण संतर्जने; भर्स्यति । शमिण आलोचने; निशामयति । भलिए आभण्डने; भालयति । कुत्सिण अवक्षेपे; कुत्सयति । वञ्चिण प्रलम्भने; वञ्चयति । विदिण चेतनाख्याननिवासेषु; वेदयतीत्यादि । एषु धातूनामिङित्त्वेऽप्यात्मनेपदं नाभूत् । अप्राप्तमपि स्याद्यथा । षस्ज् गतौ; प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु । सज्जमानमकार्येषु । अत्रेङित्त्वाभावेऽप्यात्मनेपदम् ।
भाजकं चास्य एजुङ्, भ्रेजुङ्, भ्राजि दीप्ताविति भ्राजेरात्मनेपदिषु पाठेऽपि; राजृग, टुभ्राजि दीप्तावित्यत्र पुनः पाठः । तथाहि । भ्राजेरात्मनेपदिषु द्विः पाठस्तावद् द्विर्बद्धं सुबद्धमिति न्यायेनास्यात्मनेपदाव्यभिचारज्ञप्त्यर्थः । तज्ज्ञप्त्यर्थं चेयान् यत्नस्तदा क्रियते
= ८०
-