________________
२/३८]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
यदि कथंचिदात्मनेपदस्य व्यभिचरणं शङ्कितं स्यात् । यदि चायं न्यायो न स्यात्तदा कुतस्तद्वयभिचरणशङ्कोत्पद्येत । यदि परमेतन्न्यायेन तद्वयभिचरणशङ्कोत्पादाद् भ्राजेरात्मनेपदाव्यभिचारज्ञप्त्यर्थं द्विः पाठः कृतः सार्थक इति ।
"
अस्य अध्रुवत्वाच्च 'इङितः कर्त्तरि" || ३ | ३ |२२|| इति विहितमेवात्मनेपदं यथाप्रयोगदर्शनमनित्यं; न तु " क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसोह्रवहश्चानन्योऽन्यार्थे " ॥३॥३॥२३॥ इत्यादिसूत्रैर्विहितम् ॥ ३७ ॥
क्विपि व्यञ्जनकार्यमनित्यम् ॥ ३८ ॥
प्राप्तमपि न भवतीत्यनित्यशब्दार्थः । तत्रारव्यातक्विपि यथा । राजेवाचरति "कर्तुः क्विप् गल्भक्लीबहोडात्तु ङित् " ||३|४| २५ ॥ इति क्विपि, राजानतीत्यादौ क्विप्सत्कवकारव्यञ्जनद्वारप्राप्तस्य "नाम सिदय्व्यञ्जने ॥ १।१।२१ ॥ इति पदत्वस्याभवनात् " नाम्नो नोऽनह्नः " ॥ २ । १ । ११ ॥ इति नस्य लुग् नाभूत् । कृत्क्विपि यथा । इि “क्रुत्संपदादिभ्यः क्विप्" || ५ | ३ | ११४ ॥ इति क्विपि; गिरौ, गिरः । अत्र प्राग्वत्प्राप्तपदत्वाभवनात् "पदान्ते” ॥ २ । १ । ६४ ॥ इति दीर्घो न ।
सूचकं चास्य मित्रं शास्तीति मित्रशीरित्यादौ क्विपो व्यञ्जनादित्वात् "इसास: शासोऽव्यञ्जने” ॥४।४ । ११८ ॥ इत्यनेनैव इसि सिध्यत्यपि " कौ" ॥४|४|११९॥ इति सूत्रकरणम् । तद्धि क्विप्येतन्न्यायाद् व्यञ्जनंद्वारोक्तकार्यं न भविष्यतीत्याशङ्कयैव ।
11
क्विपश्चोपलक्षणत्वाद् विच्यपि व्यञ्जनकार्यमनित्यम् । यथा मुख्यमाचष्टे जि, " मन्वन्- " ॥५ । १ । १४७ ॥ इति विचि मुख्य । ( मुख्य् ।) तं मुख्यम्; अत्र विचि 'परे "वोः प्वय्व्यञ्जने लुक् ||४|४|१२१ ॥ इति यलुग् नाभूत् । न च णिलुचः स्थानिवद्भावाद्यलुक्प्राप्तिरेव नास्तीति वाच्यम्; यविधौ "न सन्धि - " ॥७।४।१११॥ . इत्यनेन स्थानिवद्भावनिषेधात् ।
अनित्यता त्वस्य दर्शयितुं न शक्यते; यतो यदि क्विपि व्यञ्जनकार्यं किमपि जायमानं दृष्टं स्यात्तदा तदपेक्षया व्यञ्जनकार्यानित्यताया अनित्यतोच्यते; इह तु विपि व्यञ्जनकार्यं किमपि भवन्न दृश्यते ततः किमपेक्ष्यानित्यत्वस्यानित्यतोद्भाव्यताम् । ननु यद्येवं तर्हि क्विपि व्यञ्जनकार्यं न स्यादित्येव न्यायः पठ्यताम् । मैवम् । यतश्चिरन्तनानि न्यायसूत्राणि न केनापि परावर्त्तयितुं शक्यन्ते । अपि च । केचित् क्विपि किञ्चिद्वयञ्जन'कार्यं नित्यमपीच्छन्ति । तथाच जयकुमारः । पां पाने इत्यस्य क्विपि, "अप्रयोगीत्" ॥१॥१॥३७॥ इति तल्लुकि, लुप्तेऽपि व्यञ्जनादौ प्रत्यये " ईर्व्यञ्जनेऽयपि ॥४३॥९७॥ इति
1
८१