________________
न्यायसङ्ग्रहस्य -
[न्या. सू. २/३९ - ईत्वमिच्छन् पीरित्याह । तदपेक्षया न्यायेऽनित्यमित्युक्तं भावि । नानाव्याकरणसाधारणानि हि न्यायसूत्राणि ॥ ३८ ॥ स्थानिवद्भावपुंवद्भावैकशेषद्वन्द्वैकत्वदीर्घत्वान्यनित्यानि ॥ ३९ ॥ .
द्वन्द्वैकत्वं समाहारद्वन्द्वः । दीर्घत्वं च, सामान्योक्तेऽपि “भ्वादेर्नामिन-" ॥२।१।६३॥ इतिसूत्रविहितमत्र विवक्षितम् । ततः स्थानिवद्भावादीनि पञ्चाऽनित्यानीति यथाप्राप्ति सर्वत्र भवन्त्यपि, यथाप्रयोगदर्शनं वचिन्न भवन्तीत्यर्थः । स्थानिवद्भावादीनां च भवनोदाहरणानि सुलभान्येवेति नेहोच्यन्ते । अभवनोदाहरणानि त्वेवम् । .
१. तत्र स्थानिवद्भावे यथा । स्वादुशब्दात् स्वाद्वकार्षीदिति णिजि, असिस्वददित्यत्र उकारस्य वृद्धौ ततोऽन्त्यस्वरादिलुकि तस्य स्थानिवद्भावाभवनेन आकारस्योपान्त्यत्वात् "उपान्त्यस्यासमान-" ॥४।२।३५॥ इति हुस्वः सिद्धः ।
... स्थानिवद्भावानित्यत्वे उन्मीलकं तु, मालामाख्यत् अममालदित्यादावन्त्यस्वरादिलुकः स्थानिवद्भवन आकारस्योपान्त्यत्वाभावादेव हुस्वनिषेधे सिध्यत्यपि "उपान्त्यस्यासमान-" ॥४२॥३५॥ इत्यत्रासमानलोपिग्रहणम् । तद्धि स्थानिवद्भावस्यानित्यत्वादभवनसंभावनयैव कृतम् । ननु असमानलोपिग्रहणस्यन्यदपि कारणमस्ति । तथाहि । राजानमाख्यदरराजदित्यादौ "त्रन्त्यस्वरादेः" ॥७।४।४३॥ इत्यनेन कृतस्य अन्लोपस्य स्वरव्यञ्जनसमुदायादेशत्वेन स्वरादेशत्वाभावात् "स्वरस्य परे-" ॥७।४।११०॥ इति स्थानिवद्भावो न प्राप्नोति । इहापि चोपान्त्यहस्वनिषेधः कृतो विलोक्यत इत्यतस्तदर्थमसमानलोपिग्रहणं कृतमिति । सत्यम् | परमरराजदित्यादावन्लोपरूपो यः स्वरव्यञ्जनसमुदायादेशस्तत्र स्वररूपाऽवयवस्यैव प्राधान्यविवक्षायां तस्य स्वरादेशत्वमपि संभवेत्तथाच स्थानिवद्भावप्राप्त्या तत्राप्युपान्त्यत्वाभावादेव हूस्वनिषेधोऽसमानलोपिग्रहणं विनाऽपि सिध्यत्येव । तथापि यत्तत्कृतं तत्स्थानिवद्भावस्यानित्यत्वादभवनशङ्कयैवेति प्रतिपत्तव्यम् ॥ १ ॥
२. पुंवद्भावे यथा । दक्षिणस्यां भवो "दक्षिणापश्चात्पुरसस्त्यण" ॥६॥३॥१३॥ इति त्यणि, दाक्षिणात्यः; अत्र "सर्वादयोऽस्यादौ" ॥३।२।६१॥ इति प्राप्तोऽपि पुंवद्भावो नाभूत् । पुंवद्भावभवने हि स्त्रीत्वनिवृत्त्या निमित्ताभावे० इति न्यायात् स्त्रीत्वहेतुकस्यापोऽपि निवृत्त्या दाक्षिणत्य इति स्यात् ।
पुंवद्भावानित्यत्वे प्रत्यायकं तु "कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च" ॥६।१।१२७॥ इत्यत्र कौण्डिन्येति निर्देशः । अयं हि कौण्डिन्यशब्दः पुंवद्भांवस्यानित्यत्वं