________________
२/४०]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्ति: ।
विना कथमपि न सिद्ध्यति । तथाहि । कुडुङ् दाहे, इत्यस्मात् "अजाते: शीले' || ५ | १ | १५४ ॥ इति णिनि, स्त्रीत्वे ङयां, कुण्डिनी । ततः कुण्डिनीशब्दाद् वृद्धापत्यार्थे “गर्गादेः-” ॥६॥१॥४२॥ इति यञि; " जातिश्च णितद्धितयस्वरे" ॥३।२।५१॥ इति प्राप्तः पुंवद्भावो यदि स्यात्तदा स्त्रीत्वनिवृत्त्या तद्धेतुकस्य कुण्डिनीशब्दस्थङीप्रत्ययस्यापि निवृत्तौ, "नोऽपदस्य" ॥ ७|४|६१ ॥ इति इन्लोपे कौण्डयेति प्राप्नोति । तथापि यत्कौण्डिन्येति निर्दिष्टं तदेतन्यायेन पुंवद्भास्यानित्यत्वादभवने, 'अवर्णेवर्णस्य" || ७ |४| ६८ ॥ इति इल्लुग्रूपस्य स्वरादेशस्य स्थानिवद्भावेन "नोऽपदस्य- ' ॥७।४।६१॥ इति प्राप्तस्य इन्लोपस्याभवनात् कौण्डिन्येतिरूपसिद्धिसंभावनयैव ॥ २ ॥
44
"
३. एकशेषे यथा । तदतदात्मकं तत्त्वमातिष्ठन्ते जैनाः; अत्र 'त्यदादिः " ||३|१|१२०॥ इति प्राप्तस्तच्छब्दैकशेषो न ।
""
एकशेषांनित्यत्वे विशेषकं त्वीदृक्प्रयोगा एव ॥ ३ ॥
४. द्वन्द्वैकत्वे यथा । शङ्खदुन्दुभिवीणा: । अत्र " प्राणितूर्याङ्गाणाम्" ||३|१|१३७ ॥ इति प्राप्तोऽपि समाहारद्वन्द्वो न ।
द्वन्द्वैकत्वानित्यत्वे प्राणकं तु "प्राणितूर्याङ्गाणाम् ||३|१|१३७॥ इति बहुवचनमेव । तथाहि । आचार्यस्य तावत्सर्वत्रैकवचनप्रयोगस्यैव शैली, यत्र तु बहुवचनं प्रयुङ्क्ते तत्र कस्य चिद्विशेषस्य ज्ञप्त्यर्थमेव । इह च यदि तत्प्रयुक्तं तज्ज्ञायते किञ्चिदत्र प्रयोजनमस्तीति । तच्चात्र द्वन्द्वैकत्वानित्यताज्ञप्तिरेव; अन्यप्रयोजनाभावात् । यदि च द्वन्द्वैकत्वमनित्यमित्येष न्यायांशो नाभविष्यत्तदा कस्यार्थस्य ज्ञप्त्यर्थमत्र बहुवचनं प्रायोक्ष्यत ॥ ४ ॥ ५. दीर्घत्वे यथा । कुर्दि क्रीडायाम् । कुर्दते, "रम्यादिभ्यः कर्त्तरि " ||५|३ | १२६ ॥ इत्यने, कुर्दनः । गुर्व्वै उद्यमे । " णिन् चावश्यकाधमर्ण्ये" || ५ |४| ३६ ॥ इति णिनि, ङयां, गुर्विणी इत्यादौ " भ्वादेर्नामिनः " ॥ २।१।६३ ॥ इति दीर्घो नाभूत् । दीर्घत्वानित्यत्वे उद्दीपकं तु, 'भ्वादेर्नामिनः " ॥ २॥१॥ ६३ ॥ इत्यनेनैव दीर्घे सिध्यत्यपि स्फूर्ज, ऊर्णु इत्यादिनां कृतदीर्घाणामेव धातुषु पठनं; न तु हुर्छामुर्छादीनामिवाकृतदीर्घाणाम् । सदीर्घपठनं हि स्फूर्जादीनां दीर्घत्वाव्यभिचारज्ञापनद्वारेणान्येषां कचित्तद्वयभिचारज्ञापनार्थम् । यदि च दीर्घत्वमनित्यमिति न्यायांशो नाभविष्यत्तदा कस्यार्थस्य ज्ञप्त्यर्थं स्फूर्जादीनां सदीर्घपठनमाचार्यः कुर्यात् ॥ ५ ॥
44
अनित्यता त्वनित्यताया न संभवतीति न दर्श्यते ॥ ३९ ॥
अनित्यो णिच्चुरादीनाम् ॥ ४० ॥
सर्वत्र भवन्नपि यथा प्रयोगदर्शनं क्वचिन्न स्यादपीत्यर्थः । यथा चुरण; चोरति ।
८३