________________
न्यायसङ्ग्रहस्य - [न्या. सू. २/४१, ४२ - चितुण; चिन्तति । छदण्; छदनम् । तुलण्; "भिदादयः" ॥५।३।१०८॥ इत्यङि, तुला इत्यादि ।
घोषकं त्वस्य चुरादिघुष ऋदित्त्वम् । तद्धि "ऋदिछ्विस्तम्भू चूम्लुचूगुचूग्लुचूग्लुञ्चूजो वा" ॥३॥४॥६५॥ इत्यङि, अघुषदित्यादिरूपसिद्धयर्थं कृतम् । णिच एकान्तिकत्वे तु विशेषविधित्वात् "णिश्रिद्रुघुकमः कर्तरि ङः" ॥३।४।५८॥ इति ङस्यैव प्राप्तेरजूघुषदित्याद्येव भवनेनाङोऽवकाशस्यैवाभावात्किमर्थमदित्त्वं कुर्यात् ।
अस्य चाधोव्याद् युजादिवर्जानामेव चुरादीनां यथाशिष्टप्रयोगमनियतो णिच्; युजादीनां तु "युजादेर्नवा" ॥३।४।१८॥ इति नियत एव णिज्विकल्पः ॥ ४० ॥
___णिलोपोऽप्यनित्यः ॥ ४१ ॥ यथाप्राप्ति सर्वत्र भवन्नपि क्वचिन्न भवतीत्यर्थः । यथा मधवो युधिं सुप्रकम्पयाः । अत्र सुप्रपूर्वात् ण्यन्तात्कम्पेः खलि, गेल्चोऽनित्यत्वादभवने गुणेऽयादेशः सिद्धः ।
निवेदकं चास्य "णिवेत्त्यासश्रन्थघट्टवन्देरनः" ॥५॥३।१११॥ इत्यनापवादस्य "भीषिभूषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यः" ५।३।१०९॥ इति सूत्रस्य "जागुरश्च" ॥५॥३।१०४॥ इति सूत्रात्प्रारब्धे अप्रत्ययाधिकारे करणे सति, अप्रत्ययेनापि चिन्तापूजादिशब्दानां णेलुंकि सिद्धावपि; "षितोऽङ् " ॥५॥३।१०७॥ इति सूत्रात्प्रारब्धे अप्रत्ययाधिकारे "भीषिभूषि-'" ५।३।१०९॥ इति सूत्रकरणेनाप्रत्ययविधानम् । तथाहि । अप्रत्ययस्याङश्च भेदस्तावद् ङित्त्वेनैव; ङित्त्वस्य च साध्यं गुणाभाव एव । यदि च णिलुगैकान्तिकः स्यात्तदा णेलुकि नाम्यभावाद् गुणप्राप्तिरेव नास्तीति किमर्थमप्रत्ययत्यागेनाप्रत्ययमानेतुमङोऽधिकारे "भीषिभूषि-" ॥५।३।१०९॥ इति सूत्रं क्रियते । एतच्च सूत्रमडोऽधिकारे कृतं ततो ज्ञायते, एतन्न्यायात् णिलोपोऽनित्य इति । तथा सति च णेलुंगभावे यदि अप्रत्यय आनीयते तदा णेर्गुणे चिन्तया, पूजया इति स्यात् । चिन्तिया, पूज्या इति तु इष्टम्, अतोऽङोऽधिकारे सूत्रं कृतम् । तथा च गुणाभावे क्रमेण "संयोगात्" ॥२।१।५२॥ इतीयि, “योऽनेक-" ॥२।१५६॥ इति यत्त्वे च; चिन्तिया, पूज्येति सिद्धम् ।
अनित्यता त्वनित्यताया न स्यादित्युक्तमेव ॥ ४१ ॥
णिसंनियोगे एव चुरादीनामदन्तता ॥ ४२ ॥
चुरादीनामिति सामान्योक्तेऽप्यङ्कादीनां ब्लेष्कान्तानामिति (कुहान्तानामिति) ज्ञेयं नान्येषां; तेषामदन्तत्वस्यैवासंभवात् । प्राग् णिचः सर्वत्र यथादर्शनमनित्यत्वोक्तेणिजभावपक्षे अङ्कादीनामदन्ततानिषेधार्थोऽयं न्यायः । यथा जगणतुरित्यादौ णिजभावपक्षे गणे
= ८४