________________
- २/४३]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । रनदन्तत्वेनानेकस्वरत्वाभावादामादेशो नाभूत् ।
प्रगुणकं चास्य ‘ई वा गण ' इत्यपि कृते अजीगणदजगणदिति रूपद्वयसिद्वावपि "ई च गणः" ॥४।१।६७॥ इति सूत्ररचनम् । तथाहि । गणेस्तावण्णिचि णिगि च प्रत्येकमजीगणदजगणदिति द्वैरूप्यं सूरेरिष्टम् । यदि च गणेः सर्वथाऽप्यदन्तत्वं स्यादेव तदा तत्सर्वमिष्टं ई वा गण इति सूत्रेणापि सिध्यति । कथम् । प्रथमे पक्षे ई वा गण इति ईत्वं स्याद्, द्वितीये तु यथाप्राप्तम् । तच्च किम् । समानलोपित्वात्सन्वद्भावाद्यभाव इति । तथापि यत् "ई च गणः" ॥४।१।६७॥ इति सूत्रं कृत्वा चकारेणाकारानुकर्षणं कृतं, तत् णिचोऽनित्यत्वादभवनपक्षे यदैतन्यायाद्गणेरनदन्तत्वं भविष्यति तदा णिगि परे ई वा गण इति ईत्वे विकल्पितेऽप्यजीगणदित्येकमेव रूपं प्राप्स्यति तथाच मा भूत्किन्त्वजगणदित्यपि रूपं भवतादित्येवमर्थम् । अयं भावः । अनदन्तस्य गणेणिगि परे विशेषविहितत्वात्प्रथममपि ई वा गण इति ईत्वं स्यात्पक्षेऽपि च यथाप्राप्तस्य करणे समानलोपित्वाभावात् सन्वद्भावादिसद्ध्या ईत्वमेव स्यादित्युभयथाऽपि अजीगणदित्येव स्यान्न तु कथमप्यजगणद् इति । यदि तु ईच्चेति कृत्वा चकारेणाकारोऽनुकृष्टस्तदा द्वितीयपक्षे प्राप्तमपि सन्वद्भावं बाधित्वा अकारस्यैव भवनादजगणदित्यपि सिद्धम् । तदेवमनित्यत्वात् णिचोऽभवनपक्ष एतन्यायाज्जायमानानदन्तत्वस्य णिगन्तस्य गणेर्विघटमानमजगणदिति रूपं संघटयितुं क्रियमाणं चकारेणाकारानुकर्षणमेतन्यायाशङ्कात एवोद्भूतत्वादेतं न्यायं प्रगुणयतीति व्यक्तमेव ।
असंपाती चायम् । पतण् गतौ वा इत्यत्र वाशब्दो णिजदन्तत्वयोर्विकल्पार्थ इति धातुपारायणोऽक्तेस्तथाहि । यदि तावदयं संपाती स्यात्तदा वाशब्दो णिज्विकल्पार्थ इत्युक्ऽपि सरति । णिचोऽभावेऽदन्तत्वाभाव एतन्यायात् स्वयं सेत्स्यतीति कृत्वा । तथापि यददन्तत्वस्यापि विकल्पनार्थं वाशब्द इत्युक्तं, तदस्य न्यायस्यासंपातित्वादेव ॥ ४२ ॥
धातवोऽनेकार्थाः ॥ ४३ ॥ तेन धातुपाठेऽनुक्तोऽप्यर्थो लक्ष्यानुसारात्तेषां प्रयोज्य इत्यर्थः । यथा विधत् विधाने । अयं व्यधार्थेऽपि । यथा वेधः; शब्दवेधी । एधि वृद्धौ । अयं दीप्त्यर्थेऽपि । यथा पुरश्चक्रं तवैधते । प्राप्त्यर्थेऽपि । यथा औपवस्त्रफलमेधते । शुच शोके । अयं पावित्र्येऽपि । यथा शुचिः । हंग् हरणे । अयं करणार्थेऽपि । यथा इतरचिकीर्षितायां क्रियायामितरेण हरणं करणं क्रियाव्यतिहार इति, "क्रियाव्यतिहारेऽगति'"- ॥३।३।२३॥ इति सूत्रबृहद्वत्तौ । मननं मतम् । मतशब्दः सम्येऽपि। यथा मतीकृता क्षेत्रभूः; समीकृतेत्यर्थ इत्यादि ।
समर्थकं त्वस्य "तक्षः स्वार्थे वा" ॥३।४७७॥ इत्यत्र स्वार्थे इति विशेषणम् ।
=८५
=