________________
न्यायसङ्ग्रहस्य - [न्या. सू. २/४४, ४५ - तेन ह्यान्तरे नुर्न । यथा संतक्षति वाग्भिः शिष्यम्; निर्भर्त्सयतीत्यर्थः । यदि चायं न्यायो न स्यात्तदा तक्षोऽर्थान्तरवृत्त्यभावादेव स्वार्थ इत्युक्तिर्व्यथैव स्यादिति । ।
___ अयं च क्वचिदप्रमाणम् । तेन धात्वर्थं बाधते कश्चिदुपसर्गो यथा प्रतिष्ठे, प्रवसति, प्रस्मरतीत्यादीत्युक्तिरविरुद्धा । एषां हि धातुपाठे योऽर्थः पठितोऽस्ति स एवार्थो यदि स्थादिधातूनां स्यात्तदैवोच्यमाना संगच्छते । यदि त्वेतन्यायाद्धातूनामनेकार्थत्वं स्यादेव तदा स्थादिधातूनां स्थित्याद्यर्थत्वस्येव गत्याद्यर्थत्वस्यापि संभवादाचष्टे, आलोकते इत्यादाविव, प्रतिष्ठते इत्यादावप्युपसर्गस्य धात्वर्थं प्रत्यनुवर्तकत्वमेवोच्यमानं यौक्तिकं स्यान्नतु बाधकत्वमिति ।
अप्रामाण्यप्रमापकं चास्य प्रवापयाति, प्रवाययतीत्यनयोतिवेतिभ्यां णौ सिद्धावपि "वियः प्रजने" ॥४।२।१३॥ इति सूत्रकरणम् । तथाहि । पुरो वातो गाः प्रवापयतीति तावद्वांक् गतिगन्धनयोरित्यस्य धातोणिगि सिध्यति । प्रवाययतीत्यपि च वीक् प्रजनकान्त्यसनखादनेषु चेत्यस्य धातोर्णिगि; तथापि यद् "वियः प्रजने" ॥४।२।१३॥ इति सूत्रं कृत्वा वियो विकल्पेन आत्वकरणं, तत्खल्वेतन्यायस्याप्रामाण्याद्वांक्धातोः प्रजने वृत्त्यभावादेव ॥ ४३ ॥
गत्यर्था ज्ञानार्थाः ॥ ४४ ॥ . धातव इति योगः । यथा गमयति शब्दोऽर्थं ज्ञापयतीत्यर्थः ।
प्रणायकं त्वस्य "णावज्ञाने गमुः" ॥४।४।२४॥ इत्यत्रेणोऽज्ञान इति विशेषणम् । तेन हि प्रत्याययत्यानित्यादाविणो ज्ञानार्थत्वान्न गम्वादेशः । यदि चायं न्यायो न स्यात्तदेणो गत्यर्थस्य ज्ञानार्थत्वासंभवादेवाज्ञान इत्युक्तिर्व्यर्थैव स्यादिति ।
__ अस्थेयांश्चायम् | "गतिबोधाहारार्थ" ॥२॥ २५॥ इत्यत्र बोधग्रहणात् । यदि ह्ययं स्थेयान् स्यात्तदा केवलगतिशब्देनापि सरति; गतिशब्दस्यैतन्यायेन बोधस्यापि वाचकत्वात् ॥ ४४ ॥
नाम्नां व्युत्पत्तिरव्यवस्थिता ॥ ४५ ॥ तेन नामान्यनेकधाऽपि व्युत्पाद्यन्त इत्यर्थः । यथा अश्वस्याम्बा वडवा; असृगालेढि सृगालः; मह्यां रौति मयूर इत्यादि पृषोदरादित्वात्सिद्धम् । पुनर्वड आग्रहणे; इतिसौत्राद्धातोः "वडिवटि-" ( उणा० ५१५), इत्यवे, वडवा । सृधातोः "सर्तेर्गोऽन्तश्च" ( उणा० ४७८) इति कित्याले, गागमे च; सृगालः । मीनातेः "मीमसि-" ( उणा० ४२७) इत्यूरे, मयूर इत्याधुणादावपि साधितम् । तथा सूर्यशब्दः कृति "कृप्यभिद्योध्यसिध्यतिष्यपुष्य