________________
- २/४६]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्ति: ।
युग्याज्यसूर्यं नाम्नि " || ५ | १ | ३९ ॥ इत्यनेन सृधातोः क्यपि संज्ञायां निपातितः; पुनस्तद्धिते सूरशब्दस्य मर्तादिगणपाठात् " मर्त्तादिभ्यो यः ' ॥७।२।१५९॥ इति स्वार्थिकयप्रत्ययेनापि साधितः ।
"
व्युत्पादकं त्वस्य शब्दानामसकृद्वयुपादनमेव ।
अप्रौढत्वाच्चास्य रूढनाम्नामेव व्युत्पत्तिरव्यवस्थिता, न तु यौगिकानां नीलकण्ठादीनाम् ॥ ४५ ॥
उणादयोऽव्युत्पन्नानि नामानि ॥ ४६ ॥
अवयवावयविनोरभेदोपचारात् उणादय इत्युणादिप्रत्ययान्तानि कारुवायुपाय्वादिनामानि "कृवापाजि" ॥ ( उणा० १) इत्यादिना पञ्चोत्तरसूत्रसहस्त्रेण " उणादयः' ||५|२| ९३ ॥ इति सूत्रसूचितेन यद् व्युत्पादितानि, तत्प्रकृतिप्रत्ययविभागेन वर्णानुपूर्वीनिर्ज्ञानार्थमेव न तु कर्त्तेत्यादिक्रियाशब्दवदन्वर्थदर्शनार्थम् । तेन तत्त्वतस्तान्यव्युत्पन्नानि; तेषां रूढिशब्दत्वेन व्युत्पत्तेरकिञ्चित्करत्वात् । यथा वींक् धातो: "पटिवीभ्याम्-" ( उणा० ५७९) इति डिसे, विसम् । अत्रैवंव्युत्पादितस्याप्यस्य नाम्नस्तत्त्वतोऽव्युत्पन्नत्वेन सस्य कृतत्वाभावान्न षः ।
44
गमकं चास्य 'अतः कृकमि - " |२| ३ |५ ॥ इति सूत्रे कमिग्रहणात्कमेरौणादिकेऩ ‘“मावावद्यमि-'' ( उणा० ५६४ ) इति सेन निष्पन्ने कंसे लब्धेऽपि पृथक्कंसग्रहणम् । तथाहि । "अतः कृकमि " ॥ २ ॥ ३ ॥ ५ ॥ इति सूत्रे तावत् कृकमी, केवलाभ्यां समासासंभवात् प्रत्ययान्तौ ग्राह्यावित्युक्तम् । यथा अयस्कारः, अयस्काम इत्यादि । यदि चायं · न्यायो न स्यात्तदा कंस इत्यत्र कमेरेव सप्रत्ययान्तस्य सद्भावात्पयस्काम इतिवत्पयस्कंस इत्यपि कमिग्रहणेनैव सिध्यतीति किमर्थं पृथक् कंसग्रहणं क्रियेत । यत्तु कृतं तदेतन्न्यायादव्युत्पन्न एवायं कंसशब्दो न तु कमिना व्युत्पन्न इति बुद्धयैव । तदेवमेतन्न्याशब्दव्युत्पन्नत्वबुद्ध्या कृतं पृथक् कंसग्रहणमेतन्न्यायं गमयति ।
11
1
अस्य च कादाचित्कत्वात् क्वचिदेषां व्युत्पत्तिपक्षोऽप्याश्रीयते । तेन वपेरौणादिके " रुद्यर्त्ति - " ( उणा० ९९७ ) इत्युसि, वपुषेत्यादौ सस्य कृतत्वात्षः ।
अस्य कादाचित्कत्वस्थापकं तु "तृस्वसृ- " ॥ १।४।३८ ॥ इति सूत्रे तृग्रहणे - नैव सिद्धे पुनर्नप्त्रादीनामौणादिकानां पृथक्पठनस्य नियमार्थत्वम् । तथाहि नियमार्थत्वं तावत्तदा स्याद्यदि तृग्रहणेनैव नप्त्रादीनामप्यार् सिद्धः स्यान्नत्वन्यथा । तृग्रहणेन च नप्त्रादीनामार् तदा सिध्यति यदि व्युत्पत्तिपक्ष आश्रीयते न त्वन्यथेति । नप्त्रादिग्रहणसूचि नियमश्चायम् । औणादिकतृप्रत्यान्तानां नप्त्रादीनामेव आर् स्यान्नत्वन्येषां तेनात्र आर्
८७
,