________________
न्यायसङ्ग्रहस्य - ___ [न्या. सू. २/४७, ४८ - न; पितरौ, मातरौ ।
इह च उणादय इत्युपलक्षणम् । तेन क्वचिदन्यस्यापि नाम्नोऽव्युत्पत्तिपक्ष आश्रीयते । यथा "संख्याडतेश्चाशत्तिष्टेः कः" ॥६।४।१३०॥ इत्यत्र त्यन्तवर्जनेन षड् दशतो मानमस्येति वाक्यं कृत्वा "विंशत्यादयः" ॥६।४।१७३॥ इति तद्धितीयसूत्रेण तिप्रत्ययमानीय निपातनेन व्युत्पादितस्य षष्टिशब्दस्य वर्जने सिद्धेऽपि षष्टिशब्दस्याव्युत्पत्तिपक्षाश्रयणेन त्यन्तत्वस्याविवक्षणात् पृथक् ष्टयन्तवर्जनं चक्रे । यदि त्वत्र व्युत्पत्तिपक्ष आश्रितः स्यात्तदा ष्ट्यन्तोऽपि षष्टिशब्दस्तिप्रत्ययेन निष्पादितत्वात्त्यन्त एवेत्यतस्त्यन्तवर्जनेन षष्टिवर्जनं सिद्धमेवेति किमर्थं पृथक् ष्टयन्तवर्जनमाचार्यः कुर्यात् ॥ ४६ ॥ .
शुद्धधातूनामकृत्रिमं रूपम् ॥ ४७ ॥ __ शुद्धा इति कोऽर्थः ये यादृशा धातुपाठे पाठितास्तेषामकृत्रिमरूपमिति कोऽर्थः ते धातवः कृता इति नोच्यन्ते । वृक्षेष्वित्यादौ सुपः "सप्तम्यधिकरणे" ॥२।२।९५॥ इति सूत्रमुच्चार्य स्थापितत्वेन कृतत्वभवनाद्यथा तदीयसस्य षत्वं स्यात्तथा धातोरपि धातुपाठसूत्रमुच्चार्य स्थापनेन तदीयसस्य कृतत्वप्रसङ्गात्वत्वप्रसक्तिरित्यतस्तस्य कृतत्वनिषेधार्थोऽयं न्यायः । यथा मुसच् - औणादिके कित्यले, मुसलम् अत्र सस्य कृतत्वाभावात् "नाम्यन्तस्थाकवर्गात्पदान्तः कृतस्य सः शिड्नान्तरेऽपि" ॥२॥३।१५॥ इत्यनेन षत्वं नाभूत् ।
एतज्ज्ञप्तिकुशलं तु मुसलादौ षत्वं निषेद्धं यत्नान्तराकरणम् । • शुद्धति किम् । षन भक्तावित्यस्य "षः सोऽष्टयै-'" ॥२॥३।९८॥ इति से कृते सन् इति रूपस्य कृत्रिमत्वात् णौ डे, असीषणदित्यादौ "नाम्यन्तस्था-" ॥२।३।१५॥ इत्यनेन षत्वं यथा स्यात् ।
अबलिष्ठता त्वस्य न स्पष्टमीक्ष्यते । ॥ ४७. ॥ क्विबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते ॥ ४८ ॥
क्विबिति उपलक्षणत्वाद्विचन्ता अपि । धातुत्वमिति सामान्योक्तेऽपि नामार्थसंवलितधात्वर्थाभिधायित्वाद्गौणधातुत्वम् । तत एव शब्दत्वं च उपचाराद् वृक्षादिवन्नामत्वं च प्रतिपद्यन्ते इति; धातुत्वनामत्वयोः कार्यं लभन्ते इत्यर्थः । अन्योऽन्यविरुद्धकार्यप्रापणार्थोऽयं न्यायः । यथा नियौ, लुवौ इत्यादौ धातुत्वात् 'धातोरिवर्ण-"॥२।१५०॥ इति इयुवौ, शब्दत्वात् स्यादयश्च ।
ननु नयनं, लवनमित्यादिवन्नियौ लुवौ इत्यादावपि परत्वाद् गुण एव प्राप्नोति तत्किमियुवौ । उच्यते । विपः कित्त्वात्तस्य च स्थानिवद्भावान्न गुण: । "नामिनो
= ८८