________________
- २/४९]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । गुण:-" ॥४।३।१॥ इत्यस्य वृत्तौ तु विबन्तानां धातुत्वस्य गौणत्वान्न गुण इत्युक्तम्; परं तदभिप्रायः सम्यग्नावगम्यते । यतो विचन्तानां धातुत्वस्य गौणत्वेऽपि गुणो दृश्यते । यथा हिनोतीति विचि; हेः, हयौ, हय इत्यादौ धातुत्वाद् गुणः शब्दत्वात्स्यादयश्चेति ।
संवादकं चास्य "धातोरिवर्ण-" ॥२।१५०॥ इत्युवबाधकं "स्यादौ वः" ॥२।१५७॥ इति वत्वकरणम् । तथाहि । वत्वं तावद्धातोः स्यादावनन्तरे सत्युक्तम् । स्यादिश्च धातोरनन्तरस्तदा स्याद्यदि धातुः विबन्तः स्यात्तस्य च यदि नामत्वं स्यान्न त्वन्यथा । किबन्तानां धातुत्वनामत्वोभयं चैतन्यायादेव सिध्यति न त्वन्यथेति । तथाच वस्विच्छतीति क्यनि विपि तल्लुकि; वसूः, वस्वी, वस्व इत्यादौ धातोः स्यादौ परे वत्वं सिद्धम् ।
अस्य च क्षामत्वाद् आख्यातक्विबन्ता ये ते धातव एव, न तु नामानि; तेन राजनतीत्यत्र त्यादिरेव स्यान्न तु स्यादिः ॥ ४८ ॥ *
उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभाक ॥ ४९ ॥ . उभयोः स्थानिनोः स्थाने निष्पन्न आदेशो यथेच्छमन्यतरजोऽपि व्यवहियते पुत्र इव मातापित्रोः । उभयोः कार्ययोर्योगपद्येन प्रसङ्गे, क्रमेण प्रापणार्थोऽयं न्यायः । यथा आङ्, ईषि गत्यादौ, आ ईष्यः एष्यः; ततः प्रेण योगे आईतोः स्थानजस्य एतो यदा आङादेशत्वं तदा “ओमाङि " ॥१२॥१८॥ इत्यल्लोपे प्रेष्य इति स्यात् । यदा तु धात्वादेशत्वं तदा "उपसर्गस्यानिणेधेदोति" ॥१॥२॥१९॥ इत्यनेन प्रस्याल्लोपः प्राप्नोति । परं तं बाधित्वा विशेषविहितत्वात् "प्रस्यैषैष्योढोढयूहे स्वरेण" ॥१।२।१४॥ इत्यत्वे प्रैष्य इति
स्यात् ।
.. संवादी चास्य "गडदबादेः-" ॥२।१७७॥ इति सूत्रे प्रत्ययाप्रत्यययोरिति न्यायात्प्रत्ययत्वे लब्धेऽपि साक्षात्प्रत्ययशब्दोपन्यासस्तथाहि । धाधातोर्वसि द्वित्वे पूर्वस्य हूस्वे "द्वितीयतुर्ययोः पूर्वी" ॥४।१।४२॥ इति दत्वे "श्नश्चातः" ॥४।२।९६॥ इति धातोराल्लुकि “अदीर्घात्-'" ॥१३॥३२॥ इति धस्य द्वित्वं यदा क्रियते तदा दद्ध्व इत्यत्र ध्वस्य प्रकृतिप्रत्ययस्थानजस्य यद्येतन्यायबलात्प्रत्ययत्वमापाद्यते तदा कृतद्वित्वधकारसंबन्धिना प्रथमधकारेणान्तर्वर्त्तमानेन धातोश्चतुर्थान्तत्वसद्भावादादिचतुर्थत्वं प्राप्नोति । तत्करणे च धद्ध्व इति रूपं स्यात्तन् मा भूकिंतु प्रत्ययग्रहणबलान्यायानपेक्षो यः प्रत्ययस्तत्रैव पर आदिचतुर्थत्वं स्तादिति ज्ञापनार्थो हि "गडदबादे:-" ॥२।१७७॥ इति सूत्रे साक्षात्प्रत्ययशब्दोपन्यासः । यदि चायं न्यायो न स्यात्तदा ध्वस्य कथमपि प्रत्ययत्वानापत्त्या तस्मिन् . * अत्र "कृते निमित्ताभावे इति न्यायात्थस्य ठत्वं कथं व्यावर्तेत" इति पाठः कुतश्चिदधिकः प्रक्षिप्तः । यद्वा कश्चित्पाठो लुप्तः प्रतीयते ।
८५