________________
न्यायसङ्ग्रहस्य -
[न्या. सू. २/५०, ५१ - परे दद्ध्व इत्यत्रादिचतुर्थस्य प्रसङ्गोऽपि नास्तीत्यतः किमर्थं प्रत्ययग्रहणेन न्यायानपेक्ष एव प्रत्ययोऽत्र ग्राह्य इति ज्ञप्तिः क्रियेत । केवलमेतन्यायादेव ध्वस्य प्रत्ययत्वभवनेनात्रादिचतुर्थत्वं प्रसजज्ज्ञात्वा तनिषेधार्थं प्रत्ययग्रहणेन प्रस्तुतज्ञप्तिविधानं सफलम् ।
अस्य चानोजस्वित्वाद् राजानमाख्यदरराजदित्यात्रान्त्यस्वरादिलोपस्य अन्रूपस्वरव्यञ्जनोभयस्थानजत्वेऽपि स्वरादेशतैव व्यपदेश्या न तु व्यञ्जनादेशता । तद्वयपदेशे ह्यसमानलोपित्वादुपान्त्यहस्वस्य, सन्वद्भावादेश्च सिद्धावरीरजदिति स्यात् ॥ ४९ ॥ अवयवे कृतं लिङ्गं समुदायमपि विशिनष्टि चेत्तं समुदायं
सोऽवयवो न व्यभिचरति ॥ ५० ॥ अप्राप्तप्रापणार्थोऽयं न्यायः । यथा कुस्मिण कुस्मयने; अस्मात् "चुरादिभ्यः-" ।।३।४। १७॥ इति णिचि, कुस्मयते । चित्रशब्द आश्चर्यार्थे ङित् ततश्चित्रं करोतीति वाक्ये "नमोवरिवश्चित्रडोऽर्चासेवाऽऽश्चर्ये" ॥३।४।३७॥ इति क्यनि, चित्रीयते । महीपूजायाम्, कण्ड्वादिः; अस्माद् “धातोः कण्ड्वादेर्यक्" ॥३॥४८॥ इति यकि, महीयते इत्यादौ; कुस्मिचित्रङ्महीङामिङित्त्वेन णिच्क्यन्यगन्तसमुदायस्यापीङित्त्वादात्मनेपदम्; कुस्म्यादीनां णिचाद्यन्तसमुदायेन सममव्यभिचारित्वात् । चेत्तं समुदायमित्यादि किम् । कुस्मयति, चित्रीययति, महीययतीत्यादौ कुस्म्यादीनामेव णिच्क्यन्यकामागमनादनु प्रयोक्तृव्यापारार्थसंजातणिगन्तीकृतानां समुदायादिङित्त्वहेतुकमात्मनेपदं मा भूत् । णिगः प्रयोक्तृव्यापारे सत्येवोत्पत्तेः; कुस्म्यादीनां णिगन्तसमुदायव्यभिचारित्वात् ।
रमेरकं त्वस्य कुस्म्यादीनामिङित्करणमेव । एतन्यायाभावे ह्यात्मनेपदाभवनेन निष्फलत्वादिङित्त्वं कुर्यादेव न ।
अस्थिरता त्वस्य नेक्ष्यते ॥ ५० ॥ येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञाः ॥ ५१ ॥
तदन्यधात्वादियोग उपसर्गकार्यं न स्यादित्यर्थः । यथा प्रगता ऋच्छका यस्मात् स प्रर्छको देश इत्यादौ प्रस्य गमिना सह सम्बन्धाद्गमिमेव प्रत्युपसर्गत्वं न तु ऋच्छि प्रति । तेन प्रावर्णस्य "ऋत्यारुपसर्गस्य" ॥१।२।९॥ इत्यार्न । अयं भावः । ऋच्छकशब्दे तावत् प्रकृतिप्रत्ययौ स्तः; तत्र प्रगता ऋच्छका इति वाक्ये गतार्थमन्तर्भाव्य प्रवर्त्तमानेन प्रेण णकप्रत्ययस्यैवार्थः कर्ता विशेष्यते न तु ऋच्छिप्रकृतेरर्थः किमपि । ये ऋच्छन्ति कर्तृरूपास्ते प्रगता इत्येवोच्यमानत्वात् । तदेवं प्रस्य ऋच्छिना सह संबन्धाभावादृच्छि प्रति प्रस्यानुपसर्गत्वमेव ।
८०
=