________________
- २/५२, ५३]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । स्थापकं त्वस्य "ऋत्या-" ॥१।२।९॥ इति सूत्रे उपसर्गस्येत्युक्तिरेव । तथाहि । यदि तावदयं न्यायो न स्यात्तदा प्राईतीत्यादिवत्प्रर्छको देश इत्यादावप्यार प्राप्नोति । यदि च तथेष्टं स्यात्तदा लाघवार्थं प्रादेरित्येव निर्दिश्येत । येनोपसर्गसंज्ञस्यानुपसर्गसंज्ञस्य च चादिगणप्रान्तस्थितप्रादिगणस्य संबन्धिनो वर्णस्याविशेषेण ऋदादिधातावार् सिध्यते । एवं सत्यपि यदुपसर्गस्येति गुरुनिर्देशः स एतन्यायात्प्रर्छको देश इत्यादावार्निषेधार्थमेवेति ।
न चायं दुरुत्तरः, उत्तरेण कृतोत्तरत्वात् ॥ ५१ ॥ यत्रोपसर्गत्वं न संभवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते
न तु संभवत्युपसर्गत्वे ॥ ५२ ॥ पूर्वापवादोऽयं न्यायः । यथा प्रगतोऽध्वानं प्राध्वो रथ इत्यादौ प्रस्यानुपसर्गत्वेऽपि "उपसर्गादध्वनः" ॥७।३७९॥ इत्यत् समासान्तः । न ह्यत्राध्वशब्दसंबद्धस्य प्रस्य कथमप्युपसर्गत्वं संभवति; उपसृत्य धातुमर्थविशेषं सृजतीत्युपसर्ग इत्यन्वर्थाश्रयणात् । प्राध्व इत्यत्र धातुसंबन्धपरिहारेण नामसंबन्धस्यैव दृश्यमानत्वात् । ।
ध्वानिका चास्याध्वनः प्रागुपसर्गासंभवेऽप्युपसर्गादित्युक्तिः । सा ह्येतन्यायज्ञप्त्यर्थमेव कृता; अन्यथा ह्यत्र लाघवार्थं यदि प्रादेरित्येवोच्येत तदाऽपि न किञ्चिन्यूनं स्यादिति । न चायं अनित्यो निरीक्ष्यते ॥ ५२ ॥
शीलादिप्रत्ययेषु नासरूपोत्सर्गविधिः ॥ ५३ ॥ आदेर्धर्मसाध्वर्थयोर्ग्रहः । शीलादिप्रत्ययेऽपवादे विषयभूते सत्यपवादेनासमानरूपो "असरूपोऽपवादे-" ॥५॥१।१६॥ इति सूत्रप्राप्तोऽप्यौत्सर्गिकः शीलाद्यर्थप्रत्ययो न स्यादित्यर्थः । प्राप्तप्रतिषेधार्थोऽयं न्यायः । एवमुत्तरोऽपि । यथा अलङ्करिष्णुः कन्यामित्यादौ "भ्राज्यलङ्कृग्निराकृग्भूसहिरुचिवृतिवृधिचरिप्रजनापत्रप इष्णुः'।५।२।२८॥ इति इष्णुरेव स्यान्न तु "तुन् शीलधर्मसाधुषु" ॥५।२।२७॥ इत्यनेन तृन् । तेन शीलाद्यर्थे अलङ्कर्ता कन्यामित्यादिप्रयोगो न साधुः । - उपपादकं त्वस्य पद्यतेरिदित्त्वात् "इङितो व्यञ्जनाद्यन्तात्" ॥५।२।४४॥ इत्यनेनैवाने सिद्धेऽपि "भूषाक्रोधार्थजुसृगृधिज्वलशुचश्चानः" ॥५।२।४२॥ इत्यनप्रत्ययसूत्रे चेन पदोऽनुकर्षणम् । तथाहि । यद्ययं न्यायो न स्यात्तदा पदेरिदित्त्वात् "इङित-" ॥५॥२॥४४॥ इत्यनेनैवानस्य सिद्धत्वात् "भूषाक्रोधार्थ"-५।२।४२॥ इत्यनप्रत्ययसूत्रे चेन पद् किमर्थमनुकृष्यते । न च वाच्यम्, "लषपतपदः"।५।२।४१॥ इत्युकणा बाधितत्वात्पदेरनो न प्राप्नोतीत्यतोऽनार्थं चेन पदनुकृष्यते इति । “असरूपोऽपवादे-" ॥५॥१॥१६॥ इत्यनेनो
= ८१