________________
न्यायसङ्ग्रहस्य -
[न्या. सू. २/५३ - त्सर्गस्यानस्यानुज्ञातत्वेन बाधस्यासंभवात् । यदि परमेतन्यायेन शीलादिप्रत्ययेष्वसरूपविधिनिषिद्धस्तथाचोकणा अनो बाधिष्यत इत्याशङ्कयानार्थं चेन पदोऽनुकर्षणं सफलम् ।
अदीप्रश्चायम् । तेन शीलाद्यर्थे "शकमगमहनवृषभूस्थ उकण्" ॥५॥२॥४०॥ इत्युकण्प्रत्यये आगामुक इत्यादिवत् "तृन् शील-" ॥५।२।२७॥ इत्यनेन तृनि आगन्ता इत्याद्यपि स्यात् ।
अदीप्रतोद्दीपकं त्वस्य दीप्र इत्यत्र "स्म्यजसहिंसदीपकम्पकमनमो रः" ॥५।२।७९॥ इति रेणैवाननिषेधे सिद्धेऽपि "न णियसूददीपदीक्षः" ॥५॥२॥४५॥ इत्यननिषेधसूत्रे दीपिग्रहणम् । तथाहि । दीप्र इत्यत्र “इङितो व्यञ्जन"-॥५॥२॥४४॥ इति प्राप्तोऽप्यनः "स्म्यजसहिंस" - ॥५॥२॥७९॥ इति रेणैव बाधितत्वान्न भावी, ततो "न णिङ्य-" ॥५।२।४५॥ इत्यननिषेधसूत्रे किमर्थं दीपिग्रहणं क्रियते । न च वाच्यम्, "असरूपोऽपवादे"-॥५।१।१६॥ इत्यनुज्ञानादौत्सर्गिकोऽनोऽपि स्यादिति; एतन्यायेन तदनुज्ञाया निषेधात् । यदि परमेतन्यायस्यादीप्रत्वाच्छीलादिप्रत्ययेप्वपि क्वचिदसरूपविधेरनुज्ञासद्भावाद् रप्रत्ययपक्षे अनप्रत्ययोऽपि भविष्यतीत्याशङ्कय "न णिङ्य-" ॥५।२।४५॥ इत्यत्र दिपिग्रहणं सफलम् ।
__ अथ शीलादिप्रत्ययेष्विति न्यायस्यान्योऽर्थः कथ्यते । शीलादिप्रत्ययेषु विषयभूतेष्वर्थसामान्यविहितः कृत्प्रत्ययोऽसरूपोत्सर्गविधिना प्राप्तोऽपि न स्यात् । तेन शीलाद्यर्थेऽलङ्करिष्णुरत्यादौ "भ्राज्यलकृग्-" ॥५।२।२८॥ इति विहितस्य इष्णुप्रत्ययस्य विषयेऽर्थसामान्यविहितत्वात् प्राप्तोऽपि "णकतृचौ" ॥५।१।४८॥ इति णको न स्यात् । तेन शीलाद्यर्थविवक्षायां अलङ्कारक इत्यादिप्रयोगो न साधुः ।।
संवादकं चात्र परिवादक इत्यस्यार्थसामान्यविहितेन "णकतृचौ" ॥५।११४८॥ इति णकेन सिद्धावपि "वादेश्च णकः" ॥५।२।६७॥ इति शीलाद्यर्थणकविधानम् । यदि हि शीलाद्यर्थेषु तृन्नादिप्रत्ययविषयेऽर्थसामान्यविहितत्वात् "णकतृचौ" ॥५।१।४८॥ इति णकोऽपि "असरूपोपवादे-" ॥५।१।१६॥ इत्यनेन भवन् स्यात्तदा किमिति णकार्थं "वादेश्च णकः" ॥५।२।६७॥ इति सूत्रं क्रियेत । यत्तु कृतं तच्छीलाद्यर्थेषु "णकतृचौ" ॥५।१।४८॥ इति णकस्यार्थसामान्ये विधानात् प्राप्नुवतोऽप्येतन्यायादनागमनसंभावनयैव ।
___ अस्य च स्वरुचित्वात् क्वचिच्छीलाद्यर्थेऽर्थसामान्यविहितोऽसरूपोत्सर्गकृत्प्रत्ययः स्यादपि । यथा कामक्रोधौ मनुष्याणां खादितारौ वृकाविव; अत्र "निन्दहिंसक्लिशखाद-" ॥५।२।६८॥ इति प्राप्तशीलाद्यर्थणकविषयेऽर्थसामान्यविहितस्तृच् । न चायं तृन्निति वाच्यम् । तृनः कर्मणि "तृन्नुदन्ताव्ययक्क स्वानातृश्शतृङि णकच्खलर्थस्य"